________________
शास्त्रवार्ता- न चाप्यपौरुषेयोऽसौ घटते सूपपत्तितः। वक्तृव्यापारवैकल्ये तच्छब्दानुपलब्धितः॥३५॥ सटीकः । समुच्चयः ॥३७५॥ न चाप्यसौ- वेदः, सूपपत्तितः- सुयुक्त्या, अपौरुषेयो घटते । कुतः ? इत्याह- वक्तृव्यापारवैकल्ये- वक्तृताल्वादिव्या- १०॥
पाराभावे, तच्छब्दानुपलब्धितः- वेदशब्दानुपलब्धेः, शब्दत्वावच्छिन्न एव ताल्वादिव्यापाराणां हेतुत्वादिति भावः ॥३५।।
ननूक्तयुक्त्या वर्णानां नित्यत्वाद् वक्तृव्यापारो व्यञ्जकपवनोत्पाद एवोपक्षीण इत्याशङ्कयाहवक्तृव्यापारभावेऽपि तद्भावे लौकिकं न किम्।अपौरुषेयमिष्टं वो वचो द्रव्यव्यपेक्षया॥३६॥
वक्तृव्यापारभावेऽपि- शब्दे ताल्वायन्वय-व्यतिरेकानुविधानेऽपि, तद्भाये- अपौरुषेयत्वेऽभ्युपगम्यमाने, लौकिकं वचः किं न व:- युष्माकं द्रव्यव्यपेक्षयाऽपौरुषेयमिष्टम् । तत्रापि हि द्रव्याण्यपौरुषेयाण्येव, द्रव्यतो नित्यत्वस्य, पर्यायतश्चोत्पादव्यययोस्तत्रापि प्रामाणिकत्वात् । ईदृशापौरुषेयत्वेन लौकिकस्यापि वेदतुल्यत्वं स्यादिति निगः।
किच, एवं कारणत्वाभिमतानां व्यञ्जकस्थाननिवेशे घटादावपि दण्डादीनां व्यञ्जकतयैवोपपत्तेर्गतं कार्यद्रव्यचर्चयापि, घटायुत्पाद-विनाशाकल्पनलाघवात् । अतिसूक्ष्मेक्षिकया ग्राहकविश्रामे च गतं घटादिना बाह्यतयैव । यञ्च परार्थवाक्योच्चारणानुपपत्तेनित्यत्वं वर्णानामुक्तम् , तदयुक्तम् , अनित्यस्यापि शब्दस्य धृमादेरिवावगतसंबन्धस्यार्थप्रत्यायकत्वसंभवात् , भूयोदृष्टासु । धृमव्यक्तिषु वह्निसंबन्धग्रहवत् पुनःपुनरुचरितासु शब्दव्यक्तिष्वर्थसंबन्धग्रहोपपतेः । जातावेव संवन्धग्रहो व्यक्तीनां चाक्षेप इति
॥३७५॥
For Private & Personal Use Only
in Education International
www.jainelibrary.org