________________
Jain Education I
बौद्धादिवचनेन किं न तुल्यम् वः- युष्माकम् रागादिमतः स्वस्याभिप्रायनिवेदनाविशेषात् तादृशस्य च पुंसः स्वतन्त्रवचनेऽविश्वासाविशेषादिति भावः ।। ३३ ।।
न च स्वानिर्देशमात्रेऽपि स्वातन्त्र्यमपयातीत्याह
एष स्थाणुरयं मार्ग इति वक्तीह कश्चन । अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ॥३४॥ एष स्थाणुः, अयमेतदभिमुखो मार्ग इति कश्चन वक्ता स्वनामानभिनिवेशेन, इह जगति, वक्तिः अन्यः- तदपरः, स्वयं ब्रवीमि यदुतायं मार्ग इति स्वनामाभिनिविशेन वक्तिः तयोः- वक्त्रोः, भेद:- विशेषः, परीक्षपताम्, स्वाभिप्रायनिवेदनं प्रति न कश्चिद् भेदः फलिप्यतीति भावः । स्यादेतदग्न्यादिपदानामग्न्यादावेव शक्तिर्निश्चिता लाघवादितर्केण संशयनिरासात्, असति बाधके शक्यार्थ एव च वेदानां मामाण्यम्, इति वेदादिपदानां वाधकाभावादिशक्त्यादिप्रदर्शनार्थाया व्याख्याया उपयोग इति । मैवम्, विनिगमकाभावेन लाघवेन च यथाप्रतीति निखिलार्थशक्तिकल्पनायाः पदानां युक्तत्वात्, आवश्यकसङ्केतान्तराश्रयणेनैव लक्षणानुच्छेदात्, नियत संकेतस्यातीन्द्रियार्थे दुर्ग्रहत्वात्, अर्वाडशाममसिद्धार्थेऽपि प्रामाण्यामध्यवात्, बाधकं विनापि च तात्पर्यविशेषेण प्रसिद्धार्थस्य परित्यागादर्शनात्, अप्रसिद्धशक्तिकानां वेदपदानां विना मूलं शक्तिग्रहस्य दुःशकत्वाच्चेति दिग् ॥
प्रस्तुत एव दोषान्तरमाह -
tional
For Private & Personal Use Only
www.jainelibrary.org