________________
secolo
शास्त्रवार्ता- समुच्चयः।। ॥३७४।।
सटीकः । स्तरकः। ॥१०॥
स्मरणोक्तेरन्यार्थतयोपपत्तेबांधकाभावात् । अनन्यगतिकतैवात्र मानमित्यत आह-मिथः- कापिलेयादिव्याख्यया सह, वि- रुद्धभावाच्च-व्याहतार्थत्वाच्च जैमिनीयादिव्याख्यायाः। व्याख्याभेदेऽपि यस्यां साधुत्वं सेवाद्रियत इत्यत आह- तत्साधुत्वाद्यनिश्चिते:- 'इयं साधुः, इयं च कल्पिता' इति निश्चयाभावात् ।। ३१ ॥
एतदेव भावयतिनान्यप्रमाणसंवादात्तत्साधुत्वविनिश्चयः। सोऽतीन्द्रिये नयन्याय्यस्तत्तद्भावविरोधतः॥३२॥
नान्यप्रमाणसंवादात्- न प्रत्यक्षादिप्रमाणसंनादेन 'तद्गोचरगतेन' इति गम्यते, तत्साधुत्वविनिश्चयः-अधिकृतव्याख्यायाः साधुत्वनिश्चयः, गृहीतप्रामाण्यकममाणान्तरसंवादित्वेनामामाण्यशङ्कानिवृत्तेरिति भावः । कुतः ? इत्याह- सः- अन्यप्रमाणसंवादः, यत्- यस्मात् , अतीन्द्रिये- व्याख्यागोचरे, न न्याय्य:-न युक्त्युपपन्नः । कुतः? इत्याह- तत्तद्भावविरोधतःतस्यातीन्द्रियस्य व्याख्याविषयस्य तद्भावविरोधतोऽन्यममाणग्रहेऽतीन्द्रियत्वविरोधादित्यर्थः ॥ ३२ ॥ तस्माद्व्याख्यानमस्येदं स्वाभिप्रायनिवेदनम्। जैमिन्यादेर्न तुल्यं किंवचनेनापरेण वः?॥३३॥
यतश्चैवम्, तस्मात् कारणाद् , व्याख्यानमस्य-वेदस्य, इदं-भवकल्पितम् , स्वाभिमायनिवेदन-तत्त्वतः स्वाशयकथनमात्रम् , जैमिन्यादेः-व्याख्यानकर्तुः, न तु नित्यार्थस्मरणम् , सूत्रवदर्थस्य व्यवस्थितस्यादर्शनात् । 'अतः' इति गम्यते, अपरेण
॥३७४॥
Jain Education Intl
For Private & Personel Use Only
www.jainelibrary.org