SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ स्वतस्त्वभङ्गो दुर्निवारः; इत्यभिप्रेत्याहतस्मान्न चाविशेषेण प्रतीतिरुपजायते । संकेतसव्यपेक्षत्वे स्वत एवेत्ययुक्तिमत् ॥२९॥ तस्मात्- श्रुतिपदा , न चाविशेषेण प्रदीपादित इव रूपादौ, प्रतीतिरुपजायते । संकेतसव्यपेक्षत्वे- इष्टवाच्यविषयसंकेतमपेक्ष्येष्टार्थप्रतीतिजनकस्वभावत्वे, 'स्वत एव' इत्ययुक्तिमत् प्रदीपादितुल्यस्वतःप्रकाशकत्वभङ्गात् ।। २९ ॥ नियतसंकेतापेक्षायामपि दोषमाहसाधुर्नवेति संकेतो न चाशङ्का निवर्तते । तद्वैचित्र्योपलब्धेश्च स्वाशयाभिनिवेशतः॥३०॥ इतेव्र्व्यवहितसंबन्धाद् न च नैव, संकेतः- श्रुतिस्थाग्न्यादिपदानामग्न्यादिविषयोऽभिमायः, साधुः- प्रकृतयथार्थवाच्यार्थधीजनकः, नवा इति- एवमाकारा, आशङ्का निवर्तते । कुतः? इत्याह- स्वाशयाभिनिवेशतः- स्वाशयेन स्वाभिप्रायेणाभिमुखो निवेश:- तथा तथा व्याख्यारचनं ततः, तद्वैचित्र्योपलब्धेश्च- संकेतवैचित्र्यदर्शनाच्च ॥ ३० ॥ ननु व्याख्याप्यपौरुषेयी, स्मृता केवलं जैमिन्यादिभिः, इति वेदवत् तद्व्याख्यायामपि न साधुत्वाशङ्केत्याशङ्कयाहव्याख्याप्यपौरुषेय्यस्य मानाभावान्न संगता। मिथो विरुद्धभावाच्च तत्साधुत्वाद्यनिश्चितेः॥ व्याख्याप्यस्य- वेदस्य, अपौरुषेयी, मानाभावात्- जमिन्यादीनां स्मरणादौ प्रमाणाभावात् , न संगता, करणेऽपि Join Educ a tional For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy