________________
शाखवार्ता- पराभिप्रायमाशङ्कय परिहरति
सटीकः। समुच्चयः।
प्रदीपादिवदिष्टश्चेत्तच्छब्दोऽर्थप्रकाशकः। स्वत एव, प्रमाणं न किञ्चिदत्रापि विद्यते ॥२७॥ स्तबकः, ॥३७३||
प्रदीपादिवदिष्टश्चेत् तच्छब्दः- श्रुतिशब्दः, अर्थप्रकाशकः- स्वार्थबोधजनकः, स्वत एव तथास्वाभाव्यादेव । अत्रापिO एवंभूतस्वभाववादेऽपि, न किञ्चित् प्रमाण- प्रत्यक्षादि विद्यते ॥ २७ ॥
किश्च, एवं भ्रमजनकत्वमपि क्वचिद् वेदस्य स्यादित्याहविपरीतप्रकाशश्च ध्रुवमापद्यते क्वचित् । तथाहीन्दीवरे दीपः प्रकाशयति रक्तताम्॥२८॥
विपरीतप्रकाशश्च- अतथाभूतार्थवाचकत्वं च, ध्रुव- निश्चितम् , आपद्यते, क्वचित्- विषयान्तरे। प्रदीपादिदृष्टान्तेनैतदेव भावयति- तथाहीन्दीवरे नीलोत्पले, दीपः, प्रकाशयति-प्रदर्शयति, रक्ततां- पाटलिमानम् । एवं च चन्द्रः पीतवाससि शुक्लताम् , इत्यादि द्रष्टव्यम् ।। २८ ।।
ननु यथा दीपस्य चाक्षुषजननशक्तिरेव कार्यदर्शनात् कल्प्यते न घ्राणीयादिजननशक्तिः, तथा वेदानामपि स्वार्थे प्रमाजननशक्तिरेव कल्प्यते न भ्रमजननशक्तिरिति नानुपपत्तिरिति चेत् । न , ततः प्रमाकार्यस्यैवादर्शनात् । न च तद्गता
P ॥३७३॥ म्यातिपदेभ्यो नियतार्थबोधोऽपि दृश्यते, जलादौ संकेतितेभ्यस्तेभ्यो जलादिबोधस्यापि दर्शनात् , नियतसंकेतापेक्षायामपि
RASHARAT
in Education
to
For Private & Personal Use Only
www.jainelibrary.org