________________
तनिवृत्तौ- यथोदिताशङ्कानिवृत्तौ, न चोपायोऽन्यः कश्चित्र , विनाऽतीन्द्रियवेदिनं प्रमातारम् , शङ्काबीनकर्मदोषराहित्य Fol एव निःशेषशङ्काराहित्यस्य तत्त्वत उपपत्तेः, स च बो नास्ति । एवं च कृत्वा- इदं चाभिप्रेत्य, साधु-शोभनम् , एतत्EO वक्ष्यमाणम् , कीर्तितम्- उद्भावितम् , धर्मकीर्तिना-धर्मकीर्तिनाम्ना बौद्धाचार्येण ॥२४॥
तथाहिस्वयं रागादिमानार्थ वेत्ति वेदस्य नान्यतः।नवेदयति वेदोऽपि वेदार्थस्य कुतो गतिः॥२५॥
स्वयम्- अन्यानपेक्षतया, रागादियान पुरुषः,नार्थ वेत्ति-निश्चिनोति वेदस्य, संशयालुस्वभावत्वात् । नान्यतः- नाप्यन्यतः पुरुषविशेषात् , तस्यापि रागादिमत्तया विश्वासानास्पदत्वात् । न वेदयति वेदोऽपि 'भो ब्राह्मण ! ममायमर्थः' इति, एवमपतीतेः । एवं च वेदार्थस्य- अग्निहोत्रादेः, कुतो गतिः- कथं परिच्छितिः ? ॥२५॥
यतश्चैवम्, अत आह-- तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा?॥२६॥
सेन कारणेन “अग्निहोत्रं जुहुयात् स्वर्गकामः" इति श्रुतौ 'भूतविशेष घृतादि प्रक्षिपेत्' इत्यर्थिकायामभ्युपगम्यमानायाम्, TO 'खादेव चपासम्' इत्येष नार्थः किन्तु भवदभिप्रेत एव, इत्यत्र का प्रमा? नात्र किञ्चिद् विशेषार्थनिर्धारक प्रमाणमिति भावः॥२६॥
१ अमिहा श्वा तस्य उत्रं मांसमिति कृत्वेत्यर्थः ।
SSSSSSSSS
Jain Education
on
For Private Personal Use Only
म
www.jainelibrary.org