________________
शास्त्रवातों
समुच्चयः ।
॥ ३७२ ॥
लौकिकपदार्थेन तत्पदार्थस्य तुल्यता । निश्चेतुं पार्यतेऽन्यत्र तद्विपर्ययभावतः ॥ २२॥
न लौकिकपदार्थेन न लोकोक्ताग्न्यादिपदप्रतिपाद्येनाग्न्यादिना सह, तत्पदार्थस्य- वेदोक्ताग्न्यादिपदार्थस्य, तुल्यता- एकत्वम्, निश्रेतुं पार्यते । कुतः ? इत्याह- अन्यत्र - नित्यत्वादौ विपर्ययभावतः लौकिकपदतुल्यताविपर्ययभावात् । तथा चान्याद्यर्थ का नग्न्याद्यर्थक लौकिकाग्नि-घटादिपदव्यावृत्तनित्यत्वादिधर्मजनिते वेदस्थाग्न्यादिपदे ऽग्न्यर्थकत्वादिसंशय साम्राज्यमिति भावः ॥ २२ ॥
एतदेवाह -
नित्यत्वा पौरुषेयत्वाद्यास्ति किञ्चिदलौकिकम् । तत्रान्यत्राप्यतः शङ्का विदुषो न निवर्तते ॥ नित्यत्वा ऽपौरुपेयत्वादि, आदिनाऽतीन्द्रियार्थाभिधायकत्वादिग्रहः अस्ति किञ्चिदलौकिकम्- लोकातीतम्, तत्रवेदे यतश्चैवम्, अतः अस्मात् कारणात्, अन्यत्रापि पदार्थादौ, विदुषः - असाधारणधर्मज्ञस्य, शङ्का न निवर्तते किं लौकिक पदार्थ तुल्य एवास्यार्थः, किंवा विलक्षणः, नित्यत्वादेः ? इति ॥ २३ ॥
न चैतन्निवृत्युपायः परस्येत्याह
तन्निवृत्तौ न चोपायो विनातीन्द्रियवेदिनम् । एवं च कृत्वा साध्वेतत् कीर्तितं धर्म कीर्तिना ॥
wwwwwwww
Jain Education Iional
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ १० ॥
॥ ३७२ ॥
www.jainelibrary.org