SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ प्रमाणमिति च भज्येत । किञ्च शाखोच्छेदे कृत्स्नस्यापि वेदस्य कदाचिदुच्छेदात् कथमने स्वतन्त्र पुरुषं विना संप्रदायः, धर्मादिव्यवस्था वा ? | 'गतानुगतिक एव लोक इत्यप्रामाणिक एवाचारो न तु शाखोच्छेदः 'अनेकशाखा गता' इति कर्तव्यतापूरणीयत्वादेकस्मिन्नपि कर्मण्यनाश्वासप्रसङ्गात्' इत्युपगमे तु वेदानामपि गतानुगतिकतयैव लोकैः परिग्रहादप्रमाणत्वप्रसङ्गात् । दोषान्तरमाह - न चार्वाग्दर्शिना छद्मस्थेन प्रमात्रा, तस्य वेदस्य, अतीन्द्रियार्थः- धर्मादिप्रतिपादनशक्तिलक्षणः, अवसीयते - निश्चीयते ॥ २० ॥ ततथ प्रामाण्यं रूपविषये संप्रदाये न युक्तिमत् । यथाऽनादिमदन्धानां तथात्रापि निरूप्यताम् २१ रूपविषये- नीलपीतादिविषये व्यवस्थाकारिणि, यथाऽनादिमदन्धानां संप्रदाये व्यामोहदोषाद् यथा कथञ्चित् मतेऽपि, प्रामाण्यं न युक्तिमत् मूलासंभवात् स्वतोऽपरिच्छेदशक्तेश्च तथाऽत्रापि वेदाद् धर्मादिसंप्रदायेऽपि, निरूप्यतांविभाव्यताम् ||२१|| ननु लौकिकपदार्थतुल्यतया प्रसिद्धशब्दार्थत्वमेव वेदपदानाम्, अतो नात्र था नामकल्पना, इति न निर्मूलत्वं संप्रदायस्येत्याशङ्कयाह १ ख.ग.घ.च. 'वृद्धानाम' | Jain Educatmational For Private & Personal Use Only ००००० www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy