SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥३७१॥ सटीकः। स्तवकः। ॥१०॥ बदन्ति । अभ्यासः क्षयोपशमवृद्धावुपयुज्यते, सा च क्षायिकभावोत्पत्ताविति तस्वम् ॥ १८॥ परोदितधर्मा-धर्मव्यवस्थानिमित्तं विचारयतिवेदाधर्मादिसंस्थापि हन्तातीन्द्रियदर्शिनम् । विहाय गम्यते सम्यक्कुत एतद्विचिन्त्यताम् ॥ वेदाद् धर्मादिसंस्थापि- परोदिता धर्मादिव्यवस्थापि, हन्त खेदे, अतीन्द्रियदर्शिनं- धर्मादिसाक्षात्कारिणं प्रमातारम् , विहाय- अनादृत्य, कुतः- केनोपायेन, सम्यक्- यथावत् , गम्यते ? । एतद् विचिन्त्यताम्- उपयुज्य विमृश्यताम् ॥ १९ ॥ . एतदेव भावयतिन वृद्धसंप्रदायेन च्छिन्नमूलत्वयोगतः।न चार्वाग्दर्शिना तस्यातीन्द्रियार्थोऽवसीयते ॥२०॥ न वृद्धसंप्रदायेन-वृद्धपारम्पर्येणैव वेदाद् धर्मादिसंस्था ज्ञायते । कुतः ? इत्याह-छिन्नमूलत्वयोगतः- आदावेव तस्वतः केनचिदज्ञानाद् मूलस्यैवोच्छेदात् । न चाचारात् स्मृतिः, स्मृतेराचार इत्यनादिपरम्परायां न दोषः, यावदर्थदर्शनाभ्यासपरिपकज्ञानरेव स्मृतिप्रणयनात् , परैस्तदुपजीवनादिति वाच्यम् । तत एव वेदार्थसिद्धेदवैयर्थ्यान् । तयोः स्वातन्त्र्येणाप्रामाण्याद् वेदमूलकत्वमावश्यकम् , अत एव शिष्टाचारविशेषादप्रत्यक्षस्यापि वेदस्यानुमानमिति चेत् । न, शिष्टाचारत्वेनैव कर्तव्यतामनुमाय तया मूलशब्दानुमानायोगात् , तदर्थस्य मागेव सिद्धेः। यदि च व्याप्तरेव तस्यागममूलत्वम् , तदा तस्य प्रत्यक्षाऽनुमानमूलत्वमप्यत एवानुमेयम् , अनादेस्तदनपेक्षायां चाचारेऽपि कश्चिदीदृशः स्यादिति नित्यानुमेयो वेद इति चोदनैव धर्मे 24oddadies ||३७१॥ OL Jain Education International For Private & Personal Use Only RAww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy