SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ OPPSSSSSOCHODA चेत् । सम्यग्दर्शन-वैराग्यादीनां परमप्रकर्षण, 'यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य परमप्रकर्षे तदत्यन्तं क्षीयते, यथोष्णस्पर्शस्य परमप्रकर्षे शीतस्पर्शः' इति नियमात् । न च लङ्घनो-दकतापादिवदभ्यस्यमानस्यापि सम्यग्दर्शन-वैराग्यादेन परमप्रकर्षप्राप्तिरिति शङ्कनीयम् , पूर्वप्रयत्नसाध्यस्य लङ्घनस्य व्यवस्थितत्वाभावेनोत्तरोत्तरप्रयत्नानामपरापरलङ्गनातिशयोत्पत्तौ व्यापारायोगेन तत्परमप्रकर्षा सिद्धेः, व्यायामापनीतश्लेष्मानासादितपटुभावतयैव कायेन पाग्यावल्लयितव्यस्याललनात् । न च विज्ञानस्यापि प्राक्तनाभ्यासादासादितातिशयस्य शीघ्रमेव विनाशादव्यवस्थिततयाऽपराभ्यासादन्यस्यैवातिशयवतो ज्ञानस्योत्पत्तेर्न परमप्रकर्षसिद्धिरिति वाच्यम् । तत्र पूर्वाभ्यासजनितसंस्कारस्योत्तरत्रानवृत्तेः, अन्यथा शास्त्रपरावर्तनादिवयर्थ्यप्रसङ्गात् । उदकतापे त्वतिशयेन क्रियमाणे तदाश्रयस्यैव क्षयाद् नातितप्यमानमप्युदकमग्निरूपतामासादयति, विज्ञानस्य स्वाश्रयोऽभ्यस्यमानेऽपि तस्मिन् न क्षयमुपयाति, इति कथं तस्य व्यवस्थितोत्कर्षताऽशक्या ववतुम् । न च 'यदुत्कर्षतारतम्यात्' इत्यादिव्याप्तौ निम्बाद्यौषधोपयोगप्रकर्षतारतम्यानुविधाय्यपचयतारतम्यवता श्लेष्मणा व्यभिचारः, तत्र निम्बाद्यौपधोपयोगपरमप्रकर्षस्यैवासिद्धः, तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात् ; अन्यथौषधोपयोगाधारस्यैव विनाशप्रसङ्गात् , चिकित्साशास्त्रस्य धातुदोषसाम्पापादनाभिप्रायेणैव प्रवृत्तेः, तत्पतिपादितौषधोपयोगस्योद्रिक्तधातुदोपसाम्यविधान एवं व्यापारात् , तदत्यन्तनिर्मूलने तद्वयापारे च दोपान्तरस्यात्यन्तक्षये श्लेष्माद्यधिष्ठितशरीरानवस्थानात् । न च सम्यग्दर्शनादिपरमप्रकर्षेऽपि पुनर्मिथ्याज्ञानादिप्रवृत्तिसंभवाद् न वाञ्छिताप्तिरिति वाच्यम् ; प्रकृष्टेऽपि मिथ्याज्ञानादौ दोषदर्शनात् तद्विपक्षे च गुणदर्शनादभ्यास-प्रवृत्त्युपपत्तावपि प्रकृष्टसम्यग्ज्ञानादि-तद्विपक्षयोर्दोष-गुणादर्शनात् तदनुपपत्तेः, इति Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy