________________
शास्त्रवाता-
सटीकः। स्तबकः। ॥१०॥
॥३७०॥
अत एव "तो मुअइ नाणवुष्टिं भविअजणविबोहणद्वाएं" इत्यागमोक्तिरित्यपि वदन्ति । न चैवं कृतकृत्यत्वहानिः, क्षीण- घातिकर्यकत्वेन कथञ्चित्कृतकृत्यत्वेऽपि जीवदघातिकर्मविपाकभाजनतया सर्वथा तत्वासिद्धेः, आह च भाष्यकृत्
"गंतेण कयत्थो जेणोदिन्नं जिणिदनाम से । तदवंझफलं, तस्स य खवणोवाओऽयमेव जओ ॥१॥"
ये तु जैनाभासाः परोक्तदोषभीता अक्षररूपाया वाचो रागनियतत्वाद् नियत्यैव मुखाद् मों वा निरित्वरी ध्वनिरूपामेव पारमेश्वरी वाचमुपयन्ति तेऽभिनिवेशलुप्तविवेकाः, ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञ श्रोतृभाषापरिणामवदक्षरपरिणामायोगात् , अव्यक्तैकरूपतया सत्या-ऽसत्यामृषदलद्वयनिष्पादकवाग्योगद्ययात् , "अद्धमागहीए भासाए भासंति" इति सूत्रविरोधात ; नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनापि परानुग्रहोपपत्तेः, ध्वनेरपि पौरुषेयतयाऽक्षररूपतया तुल्ययोगक्षेमत्वात् , अन्यथा बाह्यमतप्रवेशाच्चेत्यन्यत्र विस्तरः ।
यदप्युक्तम्- 'न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावारकत्वप्रसिद्धिः' इति तदपि न क्षोदक्षमम् , कुड्यादीनामेव स्वातन्त्र्येणावरणत्वासिद्धेः, तद्व्यवहितानामप्यर्थानां सत्यस्वमज्ञानेन स्वमदशायां, जाग्रदशायां च शब्द. लिङ्गा-ऽक्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकारेण प्रातिभेन च ग्रहणात् , सकलार्थग्रहणखभावे ज्ञाने प्रति. बिम्बस्वभाव आदर्श मलस्येव रागादीनामेवावरणत्वौचित्यात् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः ? इति
१ ततो मुञ्चति ज्ञानवृष्टिं भविकजनविबोधनार्थतया । २ मुद्रितावश्यकनियुक्ती पृ० १४ । ३ विशेषावश्यकभाष्ये गाथा ११०३ । ४ नैकान्तेन कृतार्थों येनोदीण जिनेन्द्रनाम तस्य । तदवन्ध्यफलं, तस्य च क्षपणोपायोऽयमेव यतः॥ १॥ ५ अर्धमागध्यां भाषायां भाषन्ते ।
॥३७०॥
Join Education
For Private Personal Use Only