________________
OTOSSES
अन्यथा वर्तमानार्थानुमित्यादावगतः। न चातीतादेरसत्वाद् न तद्ग्रह इति शङ्कनीयम् : वर्तमानस्य वर्तमानकालसंबन्धित्वेनेवातीतादेरपि स्वकालसंबन्धित्वेन सत्वात् । अन्यथा निखिलशून्यताप्रसङ्गात् । एतेन 'अपिच, वस्तुनः' इत्याद्यपि निरस्तम् , यथाकालं वस्तुनो ध्वंस-पागभावभावेन युगपज्जात-मृतव्यपदेशानापत्तेः। यदपि 'किञ्च, सर्वज्ञकालेऽपि' इत्यादि न्यगादिः तदपि न साधु, विषयापरिज्ञाने विषयिणोऽप्यपरिज्ञानाभ्युपगमे सकलवेदार्थपरिज्ञानानिश्चये तयाख्यातार्थाश्रयणादग्निहोत्रादौ स्वप्रवृत्तिव्याघातात् , व्याकरणादिसकलशास्त्रार्थापरिज्ञाने व्यवहारिणां तदर्थज्ञतानिश्चयानुपपत्तेश्च । यदपि 'किञ्च, नित्यसमाधानसंभवः' इत्याद्यभिहितम् । तत्रापि न सुष्ठवहितम् , मन्त्राविष्टकुमारिकावद् विकल्पाभावेऽपि केवलिनो वचनोपपत्तेः । धर्मविशेषहेतुकं मन्त्राविष्टकुमारिकावचनं न विकल्पमपेक्षत इति चेत् । केवलिवचनमपि किं न तथा, अर्थावबोधस्य तत एव सिद्धेः ?; यदागमः
केवलनाणेणत्थे जाउं जे तत्थ पन्नवणनोग्गे । ते भासइ तित्थयरो वइजोगसुअं हवइ सेसं॥१॥"। इत्थं च रागाद्यभावे वचनादिप्रवृत्तिरपि व्याख्याता, तदभावेऽप्यदृष्टविशेषात् तदुपपत्तेः, तीर्थकरनामवेदनार्थत्वाद् भगवद्देशनाया, "तं च कहं वेइज्जई अगिलाए धम्मदसणाइ इह" इत्याद्यागमप्रामाण्यात् । न चैवमदृष्टस्य दृष्टघातकत्वापत्तिः, दृष्टहेतुवैचित्र्यस्याप्यदृष्टनियम्यत्वात् । देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा, न रागः, सामायिकचिद्विवर्तरूपत्वात् ।
, केवलज्ञानेनार्थान् ज्ञात्वा ये तत्र प्रज्ञापनयोग्याः । तान् भाषते तीर्थकरो वाग्योगश्रुतं भवति शेषम् ॥ १॥ २ मुदितावश्यकनियुक्तौ पृ० १२। ३ तच्च कथं वेद्यतेऽग्लानया धर्मदेशनयेह ।
REPORE
Jain Education
For Private
Personel Use Only
www.jainelibrary.org