SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥३६९॥ प्रत्यक्षम्' इति वदतो नैयायिकान् प्रति शोभते, न तु "स्पष्टं प्रत्यक्षम् " इति वदतोऽस्मान् प्रति, अभेद एव प्रदीप प्रकाशयो रिव क्रिया करणशक्तिभेदोपपत्तेः । योऽपि च 'सर्वज्ञज्ञानेन' इत्यादिप्रसङ्ग उक्तः, सोऽपि न युक्तः, उत्पन्नस्य तस्य सर्वथाऽनाशेनोत्तरकालमकिञ्चिज्ज्ञत्वानुपपत्तेः । स्यान्मतम् — द्वितीयादिक्षणे गृहीतग्राहित्वादप्रामाण्यापत्तिरिति । मैवम्, अगृहीतग्राहित्वस्य प्रमाया अलक्षणत्वात्, धारावाहिकममायामव्याप्तेः भ्रमेऽतिव्याप्तेश्च । तदुक्तमुदयनेनापि - " अव्याप्तेरधिकव्यासेरलक्षणमपूर्वहं" इति । अथ 'यथार्थत्वे सति' इति विशेषणाद् नातिव्याप्तिः, धारावाहिके च पूर्वज्ञानजन्यज्ञाततायाः पूर्वज्ञानाविषयाया उत्तरज्ञानविषयत्वाद् नाव्याप्तिः, भाव्य ऽतीतघटादौ घटत्वादिगतज्ञाततत्र धर्म- धर्मिणोरभेदस्वीकारेण घटादेरपि विषयत्वोपपत्तेर्ज्ञातताया निरासायोगादिति वाच्यम्; यथार्थत्वमात्रस्यैव लक्षणत्वेऽधिकस्य व्यर्थत्वात् विषयाचाधेन स्मृतेरपि प्रमात्वात्, अन्यापेक्षतया प्रामाण्यस्य चानुमित्यादौ दुर्वचत्वात्, स्वभावविशेषेणैव विषयतानियमे ज्ञातताया निरासाच्च; अन्यथा भाविघटप्रकारकभाविभूतलज्ञानादौ गत्यभावात् । न हि घट-भूतलयोरप्यभेदो भट्टानामभिमत इति दिग् । यदपि 'किञ्च, परसंतानवर्तिरागादिसाक्षात्करणादस्य रागादिमत्वमपि स्यात्' इत्युक्तम् ; तदपि न चेतोहरम्, न हि रागादिसंवेदनमात्रं रागादिनिमित्तम्, किन्तु तथापरिणाम इति; अन्यथा स्वप्ने मद्यपानानुभवे, 'मयं पीतम्' इति शब्दार्थनिबोधे वा श्रोत्रियस्य मद्यपत्यनिमित्तकप्रायश्चित्तप्रसङ्गात् । यदप्यभाणि - 'अपि च, अतीतकालाद्याकलितस्य वस्तुनः ' इत्यादिः तदप्यसारम्, अतीतादेरतीतत्वादिनैव केवलज्ञानेन ग्रहणात्, स्पष्टतया प्रत्यक्षत्वोपपत्तेः, वर्तमानतायास्तत्रातन्त्रत्वात् ; १ प्रमाणनयतत्वालोकालङ्कारे २,२ । २ कुसुमाअली चतुर्थस्तव के कारिका १। Jain Education International For Private & Personal Use Only सटीकः । स्तचकः । ॥ १० ॥ ॥ ३६९ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy