________________
तोऽपरोक्षत्वम्' इत्यामनन्ति ।
यदप्युक्तम्- 'कथं च धर्मादिग्राहिज्ञानस्योत्पत्तिः ?' इत्यादि । तदपि न पेशलम् , सर्वज्ञपणीतमागममनुसृत्याभ्यासादेव सामर्थ्ययोगेन तदुत्पत्तेः । न चैवं चक्रकावतारः, अनादित्वात् सर्वज्ञपरम्परायाः, अत एव "तप्पुब्बिया अरहया" इत्यादावनवस्थादिदोषस्यापि परिहारः । अर्थज्ञान-शब्दरूपत्वाच्चागमस्य मरुदेव्यादीनां सार्वज्यस्य वचनरूपागमाभ्यासापू
कत्वेऽपि न क्षतिः, आगमार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तत्वतस्तत्पूर्वकत्वात् । अभ्यासेनास्पष्टस्य स्पष्टत्वायोगदोषश्चानुक्तोपालम्भमात्रम् , ततोऽस्पष्टज्ञानमुपमृद्य स्पष्टज्ञानान्तरोत्पत्तेरेवोपगमात् “नम्मि उ च्छाउमथिए नाणे" | इति वचनात् । अत एव 'प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीता-ऽनागत-सूक्ष्मादिपदार्थविषयमस्तीति सर्वज्ञत्वं स्यात्' इति मीमांसकमनोरथतरुरुन्मूलितः, अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् , इतरस्य च संशययोग्यतया स्वतन्त्रप्रवृत्त्यनुपयोगित्वात् , निमूलपरम्पराप्रसक्तः । कामादिविप्लुतविशदज्ञानवत इव भावनावललब्धविशदज्ञानवतः सर्वज्ञस्य तद्वदुपप्लुतत्वप्रसङ्गापादनं च वृथैव, भावनाबलाज्ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् , सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनस्यायुक्तत्वात् , अन्यथा सकलानुमानोच्छेदप्रसक्तः।
यच्च परोक्षादपरोक्षोत्पत्त्यदर्शनमुद्भावितम् , तदज्ञानविलसितम् , परोक्षादपि तत्तास्मरणात् स्वयमपरोक्षतत्ताविषयकप्रत्यभिज्ञानस्वीकारात् । यस्तु श्रवणादेः प्रत्यक्षप्रमाकरणत्वेन प्रत्यक्षप्रमाणत्वप्रसङ्ग उक्तः, स तु 'साक्षात्कारिप्रमायाः करणं
१ तत्पूर्वका अहंन्तः। २ नष्टे तु च्छादास्थिके ज्ञाने ।
मऋत्यनुपयोगिवन्यासजस्य स्पष्टविज्ञानस्यनागत-सूक्ष्मादिपदार्थविषय
RadioSCOPENSleey
Jain Education Inte
For Private
Personel Use Only