________________
शास्त्रवातासमुच्चयः। ॥३६८॥
सटीकः। स्तबका। ॥१०॥
ज्ञानस्यावग्रहादिक्रमानुविद्धत्वादिति द्रष्टव्यम् ।
ये तु योगा संगिरन्ते- 'मनःकरणकमेव योगिनां प्रत्यक्षम् , योगजधर्मप्रत्यासच्या मनसैव निखिलार्थसाक्षात्कारात्' इति । तेऽपि भ्रान्ताः, योगजधर्मस्य मनःप्रत्यासत्तित्वं चक्षुरादिप्रत्यासत्तित्वं वेत्यत्राविनिगमात् । धर्मविशेषसहकारेण मानसं प्रातिभप्रत्यक्षं दृष्टमिति योगिप्रत्यक्षमपि धर्मविशेषसहकृतमनोजन्यमेव कल्प्यत इति चेत् । न, अञ्जनविशेषाद्युबुधर्मविशेपसहकृतचक्षुरादिजन्यस्य निध्यादिसाक्षात्कारस्य दर्शनाद् योगिनां सर्वार्थविषयचाक्षुपादिकल्पनस्यापि सुशकत्वात् । अञ्जनादिना निध्यादिसाक्षात्कारोऽपि मानस एव, 'पश्यामि' इति प्रतीतिस्तु तत्र चाक्षुषत्वारोपादिति चेत् । न, बाधकाभावात् , नयनप्राप्त्यभावस्य तस्यापाप्यकारित्वेऽबाधकत्वात् । अपि च, जन्यज्ञानत्वावच्छिन्नं प्रत्येव मनसः कारणत्वं त्वया कल्प्यते । तत्र जन्यत्वमीश्वरज्ञानादिव योगिज्ञानादपि व्यावृत्तमस्तु, योगधर्मप्रत्यासत्यकल्पनलायवात् । अथ केवलिनामपि मनःसत्वात् कथं न तत्करणकं तेषां ज्ञानम् ? इति चेत् । सत्यम् , तत्सत्त्वेऽपि तयापाराभावात् । संयोगातिरिक्ततयापारस्यासिद्धिरेवेति चेत् । न, सुषुप्तिव्यावृत्त्यनुपपत्तेः। अस्त्येव तेषामनुत्तरसुरसंशयनिवर्तको मनोव्यापारोऽपीति चेत् । सत्यमस्त्येव, प्राश्निकानामर्थानुमापकः सः, परं न क्षयोपशमानिष्पादकतया स्वप्रतिपत्त्यनुकूलः, इन्द्रियव्यापारस्य तद्वारैव ज्ञानहेतुत्वात् , अन्यथा व्यभिचारात् । अत एव क्षयोपशमभेदादेव ज्ञानभेदः, न विन्द्रियभेदात् । इत्थमेव संभिन्नश्रोतोलब्धिमतां श्रोत्रेणापि रूपग्रहणोपपत्तेः । न चैत्रं चाक्षुपत्व-श्रावणत्वादिसांकर्यम् , तस्य जात्यन्तरत्वात् । अत एव च 'इन्द्रियादिवहिरङ्गपरहेतुकत्वादस्मदादिचाक्षुषादीनां निश्चयतः परोक्षत्वम् , संशयास्पदत्वाच्च ; योगिज्ञानस्य चात्मातिरिक्तानपेक्षत्वात् संशयानस्पदत्वाच तत्व
॥३६८०
JainEducation indi
For Private
Personel Use Only