SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ रणांशे 'साक्षात्करोमि' इत्यनुभवानुपपत्तेः, अनुमाना-भावप्रमागयोः समाहारे व्यापकाभाव-व्याप्याभावप्रतीत्यनुपपत्तेश्व, द्वयोर्मिथः प्रतिरोधेऽनुभवस्यैवानुपपत्तेः, अप्रतिरोधे च सांकर्यात् , तत्स्थलीयानुभवे जात्यन्तरस्वीकारे च तत्र करणान्तरस्यावश्यकत्वात् प्रमाणसंख्याव्याघातापत्तेः, एकतरवलवच्चे चाविनिगमात् । अपिच, अभावग्रहे भावानुपलब्धिवद् भावग्रहेप्यभावानुपलब्धेर्हेतुत्वात् प्रत्यक्षकथैवोत्सीदेव, घटादिग्रहेपि घटाभावानुपलब्धव्यापारात्, इन्द्रियसहकारित्वं तु तस्या उभयत्र तुल्यमिति दिग् । ततो 'नाभावप्रमाणपवृत्तिः सर्वज्ञे' इति व्यवस्थितम् । यच्च ‘एवं विप्रतिपन्नप्रत्यक्षं यदि' इत्यादि प्रसङ्गसाधनयुद्भावितम् । तदप्यापायापादकयोस्तद्विपर्यययोश्च व्याप्यव्या. पकभावे सिद्ध शोभते, स चाचापि न सिद्ध इति न किञ्चिदेतत् । यदपि 'यत्राप्यतिशयो दृष्टः, येऽपि सातिशया दृष्टाः' इत्या. शुक्तानुरोधेन स्वविपयस्वग्राह्य जात्यतिक्रान्तमत्यक्ष प्रत्यधि, तदपि 'दृष्टजातीय चक्षुरादय एव सर्वे पुरुषाः' इति नियमग्रहे शोभते, स एव चासर्वज्ञस्य दुर्ग्रहः । दृश्यते च चक्षुरपि केषाश्चित् प्रश्नादि-मन्त्रादिद्वारेण संस्कृतं कालविप्रकृष्टार्थग्राहकम् , मृषिकादेर्नक्तञ्चर पदंशादेश्चान्धकारव्यवहितार्थबाहकम् , अञ्जनविशेषादिसंस्कृतं च केषाश्चित् कुड्यादिव्यवहितार्थग्राहकम् , दीपावतारादौ च समुद्र-सेना-नग-नगरादिग्राहकम् , तद्वद् यदि पुरुषविशेषस्यापि कस्यचिच्चक्षुरादि धर्मादेरपि देश-कालस्वभावविप्रकृष्टस्य ग्राहकं भवति तदा को नाम दृष्टवभावातिक्रमः ?; चक्षुःश्रवसां चक्षुपैव शब्दश्रवणस्य प्रसिद्धत्वेन विषयातिकमस्याप्यदृष्टस्याकल्पनात् । कर्णच्छिद्रानुपलब्धेर्ददशूकचक्षुर्जात्यन्तरमेवेति चेत् । तुल्यमेतदुत्तरमन्यत्रापि, प्रकृष्टपुण्यसंभारजनितसर्वविच्चक्षुषो जात्यन्तरत्वात् । अभ्युपगमवादवायम् , वस्तुतो घातिकर्मक्षयाविर्भूतत्वेन केवलज्ञानस्यातीन्द्रियत्वादिन्द्रियज in Ede For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy