________________
शास्त्रवार्ता-नि
भावज्ञानेऽनन्ताधिकरण-प्रतियोगिज्ञानहेतुताकल्पने गौरवाचेन्द्रियोपयोगसमय एवाधिकरणप्रतियोगिज्ञानापेक्षां विनैव भावां
सटीक समुच्चयः। शवदभावांशस्य प्रत्यक्षत्वाभ्युपगमौचित्यात् , भूतलासंसृष्टघटदर्शनाहितसंस्कारस्य पुनर्घटासंसृष्टभूभागदर्शनानन्तरं तथा- स्ताकः। ॥३६७॥ विधघटस्मरणे सति 'अत्र घटो नास्ति' इति प्रत्यभिज्ञानमात्रात् । 'न चात्र किश्चिदधिकं कल्पनीयम् , विशिष्टवैशिष्ट्यज्ञान- PO॥१०॥
सामग्रीमात्रेणैव निर्वाहात्' इति तु विवेचितं प्राक् । न चैवं प्रतियोगिग्राहिणेन्द्रियेणाधिकरणज्ञानस्य हेतुत्वे वायौ रूपाभावप्रतीतिरपि संगच्छते, तत्र रूपाभावस्य रूपानुपलम्भेनाप्यनुपातुमशक्यत्वात् , माकट्यनिरासेन तदभावेन तस्यानुमातुमप्यशक्यत्वात् । न चानुपलम्भे विशेषाभावादभावग्रहविशेष आलोकायपेक्षोपपत्तिरपि, अधिकरणज्ञानविशेषेऽपि करणविशेष - विना क्रियाविशेषानुषपत्तेः, अधिकरणज्ञानस्य करणत्वे च गतमभावप्रमाणेन । न चाधिकरणा-ऽभावाज्ञानद्वयं क्रमेणोत्पद्यमानमुपलभ्यतेऽपि, येनेयं कल्पना सावकाशापि स्यात् ।
अपि च, अज्ञातकरणत्वादप्यभावज्ञानमपरोक्षं स्वीकरणीयम् , ज्ञाताया अनुपलब्धेः करणत्वेऽनवस्थानात् । न च प्राग्नास्तिताबुद्धौ ज्ञातैव सा करणम् , अभावमत्यक्षमा प्रतियोगिज्ञानस्याहेतुत्वेन गृहसनिकर्षकाले मैत्रास्मरणेऽपि तदभावानुभवेन मैत्रस्मरणे सति माग्नास्तिताधियः प्रत्यभिज्ञामात्रत्वात् । अवधानं च तत्रानुपयोगादिकृताभावसभावनानिरासार्थमुपयुज्यते । 'स्मरणास्मिरणानुमितसंनिकर्षादिकालीनानुपलब्धिलिङ्गिकैव प्राग्नास्तिताधीः' इत्यन्ये । दोपेणाप्यनुपलब्धेरभावरूपाया उपघाताभावादिन्द्रियस्यैव दुष्टत्वोपपत्तेरभावप्रमाकरणस्वादभावभ्रमकरणत्वमपीन्द्रियस्यैव युक्तम् । किन प्रमाणयोर्विरोधादधिकरणविशिष्टाभावधीरप्येवं न युज्यते, अभावज्ञानेऽधिकरण-प्रतियोगिनोरुपनीतयोर्भावानभ्युपगमेऽधिक
Jain Education in 10X Deal
For Private & Personel Use Only
Mywww.jainelibrary.org