________________
Jain Education In
ସମ
पपत्तेरूर्ध्वस्थित वस्तुग्रहणप्रसङ्गात् । न चाग्रभागावच्छेदेन संयुक्तस्यैव चक्षुषो ग्राहकत्वम्, अत एव न नयनस्थिताञ्जनादिग्रहोऽपीति नायं प्रसङ्ग इति वाच्यम्; तथापि तावत्पर्यन्तं प्रसृतस्यान्तरालिकवस्त्वन्तरग्रहणप्रसङ्गात् संनिहितं विमुच्यासंनिहितसंयो गानुपपत्तेः, अनन्यगत्या वेगादिविशेषाद विनैव संनिकृष्टदेशविशेषसंयोगं विप्रकृष्टदेश संयोगोपपादने चानन्यगत्या देशविशेषस्य तत्तच्चाक्षुष हेतुत्वमस्तु, अनन्तचक्षुः क्रिया-संयोग विभाग तत्कार्यकारणभावाय कल्पनलाघवात् । अस्तु वा नयनप्राप्तिनियामक विशिष्टाभिमुख्यमेव तत्कार्यनियामकम् । एतेन 'क्रमिकोभयसंयोगवता चक्षुषा शाखा चन्द्रमसोर्ग्रहणे कालसंनिकर्षाद् योगपद्याभिमानः' इत्यपि निरस्तम्, चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन 'शाखा चन्द्रौ साक्षात्करोमि इत्यनुव्यवसायानुपपत्तेश्च । न च क्रमिकतदुभयजनितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात् तथाऽनुव्यव साय इति सांप्रतम् ताहगारोपादिकल्पनायां महागौरवादिति । अधिकं ज्ञानार्णवादौ ।
तदेवं भवांश इवाभावांशेऽपि विषयग्रहणपरिणामरूपभावेन्द्रियस्य ग्राह्यतापरिणामाख्ययोग्यता संबन्धसत्त्वादिन्द्रियेण तद्ग्रहणं न दुर्घटम् । यच्चोक्तम्- 'प्रतियोगिग्रहणपरिणामाभावरूपं तदन्यवस्तुविज्ञानरूपं वाऽभावाख्यं प्रमाणमेष्टव्यम्' इति । तन्न पटिष्ठम्, आद्यस्य समुद्रोदकपलपरिणामेनानैकान्तिकत्वात् द्वितीयस्य च विविक्ताधिकरणज्ञानरूपस्येन्द्रियायन्वयव्यतिरेकानुविधायित्वेन प्रत्यक्षत्वादेव । यदप्युक्तम्- 'न चैवमभावज्ञाने' इत्यादि । तदप्ययुक्तम्, प्रतियोग्यधिकरण संसृताSसंसृष्टताभ्यामधिकरणग्रहण-प्रतियोगिस्मरणयोरपेक्षायां वाधात्, प्रत्यक्षेणैव सिद्धौ वैयथ्याच्चः अन्यासंसृष्टतादिग्रहेऽभाव व्यापारे च चक्रकादिदोषात् । न च संसृष्टता-संसृष्टतोदासीनं तदज्ञानमात्रं तथा, इदत्वादिनाऽभावज्ञाने व्यभिचारात्, विशिष्या
onal
For Private & Personal Use Only
199999990090
www.jainelibrary.org