________________
घटादिवदभिव्यक्तः सन् सर्व एवायं गृह्यते यदवच्छेदेन संस्कारस्तदवच्छेदेन ग्रहणनियमाद् नातिप्रसङ्गः, तदुक्तम्" यथैवोत्पद्यमानोऽयं न सर्वैरवगम्यते । दिग्देशाद्यविभागेन सर्वान् प्रति भवन्नपि ॥ १ ॥
तथैव तत्समीपस्थैर्नादैः स्याद् यस्य संस्कृतिः । तैरेव गृह्यते शब्दो न दूरस्थैः कथञ्चन ॥ २ ॥”
इति न दोष इति चेत् । न, असिद्धमसिद्धेन साधयतो महासाहसिकतापत्तेः, घटस्याप्यावृता ऽनावृतदेशयोः खण्डा-ऽखण्डप्रतिभासभेदेन भेदसाधनात् तद्वदस्य सविभागत्वप्रसङ्गात्, संस्कृता ऽसंस्कृतदेशभेदात्, अन्यथा सर्वात्मना संस्काराधाने ऽन्यत्रावारकाणां शक्तेः प्रतिवद्धुमशक्यत्वेनाकिञ्चित्करतयाऽतिप्रसङ्गस्य तादवस्थ्यात् । उत्पत्तिपक्षे त्वव्यापकत्वाद् यत्समीपवर्ती वर्ण उत्पन्नस्तेनैवास गृह्यते न दूरस्थैरिति नातिप्रसङ्गः । दिग्देशाद्यविभागेन इति चातीवासंगतम्, अविभागस्य कस्यचिद् वस्तुनोऽसंभवेनानभ्युपगमात् । किञ्च, व्यापकत्वेन वर्णानामेकावरणापायेन समानदेशत्वे सर्वेषामनानृतत्वाद् युगपत् सर्ववर्णश्रुतिः स्यात् । न च प्रतिनियतवर्णश्रवणान्यथानुपपच्या व्यञ्जकभेदसिद्धेर्नायं दोषः स्यादिति वाच्यम् ; तद्भेदो ह्यावारकभेदे स्यात् अभिन्नावारकापनेतृत्वं तद्भेदासिद्धेः, आवारकभेदथ वर्णदेशभेदे स्यात्, समानदेशानामेकावार के णैवापरावरणदर्शनात्, देशदोsपि वर्णानामव्यापकत्वे सति स्यात्, व्यापकत्वे तु परस्परदेशपरिहारेण तेषामनवस्थानाद् देशभेदासिद्धेः । न चाव्यापकत्वं वर्णानामभ्युपगम्यते भवद्भिरिति ।
व्यञ्जकत्वाभिमतानां नावारकापनेतृत्वेन व्यञ्जकत्वम्, किन्तु वर्णे दृश्यस्वभावाधानाद, इत्युपगमे तु स्ववाचैव तस्य परिणामित्वमभिहितम् | 'स्वप्रतिपत्तौ सहकारित्वेनैव व्यञ्जकत्वम् इत्यप्येकान्तनित्यस्य सहकार्यपेक्षाऽयोगाद् न शोभते,
Jain Education Intonal
For Private & Personal Use Only
www.jainelibrary.org