________________
३४
यस्मादन्यसच्चस्थितावपि किमुत तनिवृत्तौ असत् सद् न जायते तच्छक्त्यभावेनातिप्रसङ्गात् । तस्यैव च पूर्वक्षणस्य, तथाभावे - उत्तरक्षणरूपतया भवने, ननु- निश्चितम् अन्वयः कथमसिद्धः, भावाविच्छेदस्यैवान्वयत्वात् १ ॥२८॥ दोषान्तरमाह
भूतिर्येषां क्रिया सोक्ता न चासौ युज्यते क्वचित् । कर्तृभोक्तृस्वभावत्वविरोधादिति चिन्त्यताम्॥
या एषां प्रस्तुतभावानाम् भूतिः, सा क्रियोक्ता भवता, न चासौ - भूतिः, न्यायतः कचिद् युज्यते । कथम् इत्याहकर्तृ-भोक्तृस्वभावत्वविरोधात् तथाहि सा किं कर्तृस्वभावा वा स्यात्, भोक्तृस्वभावा वा ? । कर्तृस्वभावत्वे न भोक्तृत्वम् भोक्तृस्वभावत्वे च न कर्तृत्वं स्यात् । न च कर्तृस्वभावत्वमेव भोक्तृस्वभावत्वम्, घट कलशादिपदानामित्र कर्तृभोक्तृपदयोरभिन्नप्रवृत्तिनिमित्तकत्वेन पर्यायत्वापातात् चरमस्य कर्तृत्वाभावाच्च, भावे वा चरमत्वविरोधात् । न चादौ कर्तृस्वभावैव, अन्ते च भोक्तृस्वभावा, अन्तरा तूभयस्वभावेति वाच्यम्; द्वैरूप्यविरोधादिति चिन्त्यतां सूक्ष्मधिया ॥ २९ ॥ प्रस्तुतमुपसंहरति
Jain Educationational
न चातीतस्य सामर्थ्यं तस्यामिति निदर्शितम् ।
न चान्यो लौकिकः कश्चिच्छब्दार्थोऽत्रेत्ययुक्तिमत् ॥ ३० ॥
For Private & Personal Use Only
www.jainelibrary.org