Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
S
सद्भावः, न बुद्धेः, गुणत्वादिति नायं दोषः; ननु कुतस्तस्या गुणत्वम् ?, तत्र समवेतत्वादिति नोत्तरम्, तस्यैवानिश्चयात्; तदाधेयत्वात् तस्यास्तत्समवेतत्वमिति चेत् ?, ननु केनैतत् प्रतीयते ?, न तावदीश्वरेण तेनात्मनो ज्ञानस्य चाग्रहणात् 'इदमत्र समवेतम्' इति तस्य प्रतीतेरयोगात् ; तज्ज्ञानस्य तत्र समवेतत्वमेव तग्रहणमित्यपि नोत्तरम्, अन्योऽन्यसंश्रयात् - सिद्धे हि 'इदमत्र' इति ग्रहणे तत्र समवेतत्वसिद्धिः, अस्याश्च तग्रहणसिद्धिरित्यन्योऽन्याश्रयः, तत्रेश्वरस्तज्ज्ञानमात्मनि समवेतमवैति, यश्चात्मीयमपि ज्ञानमात्मनि व्यवस्थितं न वेति स सर्वजगदुपादानसहकारिकारणादिकमवगमयिष्यतीति कः श्रद्धातुमर्हति ?, नापि तज्ज्ञानमवैति 'स्थाणावहं समवेतम्' इति, तेनात्मनोऽवेदनात्, आधारस्य च; न च तदग्रहणे 'इदं मम रूपमत्र स्थितम्' इति प्रतीतिः सम्भवति, न च तद् आत्मानमप्यवैति, अस्वसंविदित्वाभ्युपगमात् न चापरं तग्राहकं नित्यं ज्ञानं तस्येश्वरस्य संभवतियेनैकेन सकलं पदार्थजातमवगमयति, अपरेण तु तज्ज्ञानम्, समानकालं यावद् द्रव्यभाविसजातीयगुणद्वयस्यान्यत्रानुपलब्धेस्तत्रापि तत्कल्पनाऽसम्भवात्, तत्कल्पने वाsकर्तृकमङ्कुरादिकार्यं किं न कल्प्येत; अस्तु वा तत्र यथोक्तं ज्ञानद्वयं तथापि तयोर्ज्ञानयोरन्यतरेण स्वग्रहणविधुरेण न स्वाधारस्य न सहचरस्य ज्ञानस्य नाप्यन्यस्य गोचरस्य ग्रहणम्, तथाहि - यत् स्वग्रहणविधुरं तन्नान्यग्रहणं, यथा घटादि, स्वग्रहणविधुरं च प्रकृतं ज्ञानम्, ततोऽनेन सहचरस्याग्रहणात् कथं तेनास्य ग्रहणम् ?, तेनापि ग्रहणविरहितेनास्य वेदने तदेव वक्तव्यमिति न कस्यचिद् ग्रहणम्, इति न समवेतत्वेन तद्दुद्धेर्ग्रहणम्, नापि तदाधारस्य द्रव्यत्वं सिद्धिमुपगच्छति; तस्मान्नित्यबुद्धिपूर्वकत्वेऽङ्कुरादीनां किमिति युगपदुत्पादो न भवेत् ?, ईश्वरवत् तद्दुद्धेरपि सदा सन्निहितत्वात्, अनित्यबुद्धिसव्यपेक्षस्यापीश्वरस्याचेतनाधिष्ठायकत्वेन जगहधातृत्वे तस्य नित्यत्वेन तद्बुद्धेरपि सदा सन्निहितत्वम्, अविकलकारणयोः सर्वदा सन्निहितत्वाद् युगपदङ्कुरादिकार्योत्पत्तिप्रसङ्गः” इति ।
किञ्च तदुपादानप्रत्यक्षस्य सकलविषयकस्य साश्रयत्वेऽपि न तदाश्रयत्वेनातिरिक्तमीश्वरात्मद्रव्यं कल्पनीयम्, किन्तु नानात्मस्वेव व्यासज्यवृत्ति तत् कल्प्यताम्, यथा च ज्ञानान्तरेष्वदृष्टमपि नित्यत्वं तत्र तथा ज्ञानान्तरेष्वदृष्टमपि व्यासज्यवृत्तित्वं तत्र स्यादेव यथा च तस्यानित्यत्वे प्रागभाव - ध्वंसादिकल्पनया गौरवमतो लाघवान्नित्यत्वं, तथा तस्य समवायेनेश्वरगतत्वे स्वाश्रयसंयुक्तसंयोगसम्बन्धेन नानात्मगतत्वं तत्तदात्मगतसुखदुःखादिकारणत्वानुरोधेनावश्यं वाच्यमिति निरुक्त
१०१

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262