Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१२२
शास्त्रवार्तासमुच्चयः।
[तृतीयः "इत्येवं पटुरीश्वरव्यतिकरः सत्तर्कसम्पर्कभाग् ,
येषां विस्मितमातनोति न मनस्ते नाम वामाशयाः। अस्माकं तु स एक एव शरणं देवाधिदेवः सुखाम्भोधौ यस्य भवन्ति बिन्दव इव स्वासद्मनां सम्पदः" ॥ १॥
॥ १७॥२१०॥
वार्तान्तरमुपदर्शयतिप्रधानोद्भवमन्ये तु, मन्यन्ते सर्वमेव हि। महदादिक्रमेणेह, कार्यजातं विपश्चितः ॥ १८ ॥ २११ ॥ प्रधानोद्भवमिति । अन्ये तु विपश्चितो मन्यन्ते ईश्वरकर्तृत्वाभ्युपगन्तृव्यतिरिक्ताः साङ्ख्या अभ्युपगच्छन्ति, इह कार्यकारणविचारे, हि निश्चितम् , सर्वमेव कार्यजातं निखिलमेव-जन्यम् , महदादिक्रमेण महतोऽहङ्कारः, तस्मात् षोडशको गणः, षोडशकात् पञ्चतन्मात्रेभ्यः पञ्च भूतानीत्येवं क्रमेण, प्रधानोद्भवं सत्त्वरजस्तमस्साम्यावस्थालक्षणप्रकृतिसमुत्थम् । तथाहि
“पञ्चविंशतितत्त्वज्ञो, यत्र कुत्राश्रमे रतः ।
शिखी मुण्डी जटी वापि, मुच्यते नात्र संशयः" ॥ इति वचनात् साङ्ख्यानां मते पञ्चविंशतितत्त्वज्ञानान्मुक्तिरिति पञ्चविंशतिस्तत्त्वानीत्यवधार्यते, तत्र आत्मा न कस्यापि कारणमिति अकारणम् , न कस्यापि कार्यमिति अकार्यम् , अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाच्चैतन्यात्मकत्वाच्च कूटस्थनित्यचैतन्यरूपश्च, प्रधत्ते प्रधीयते वाऽधिकारा अस्मिन्निति प्रधानं सत्त्वादिसामान्यावस्थादिलक्षणं प्रकृतिरित्युच्यते, सा अचेतना महदाधुत्पादकाशेषशक्तिप्रचिता, न तस्याः कारणमन्यत् किन्तु सा कारणमेवेति आदिकारण, परिणमते महदादिरूपेणेति परिणामिनी च; तदभावे हि परिमितं महदादि व्यक्तं न भवेत् , तथोत्पादकहेत्वभावात् , न च स्याद् भेदानामन्वयः, अन्वयश्च महदादीनामशेषाणां सत्त्वरज-स्तमोगुणान्वितत्वम्, सत्त्वरजस्तमोमयकारणप्रभवत्वमन्तरेण सत्त्वरजस्तमो. जातिमत्कार्यासम्भवात् , कारणविजातीयकार्यानुपलब्ध्या यज्जातीयं कारणं तजातिमत्कार्यमित्यवतेः; न च बुद्धिरेव कार्यधर्मानुविधायिनी, असाधारणत्वात् , अनित्यत्वाच्च न च महदादिहेतुशक्तिप्रवृत्तिः स्यात् , नहि पटादिजननी शक्तिस्तन्तुवायादिकमाधारं विना प्रवर्तते, तथा कारण-कार्यविभागोऽपि न स्यात्, प्रकृतेः

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262