Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 193
________________ १३८ शास्त्रवार्तासमुच्चयः । [तृतीयः रूपत्वाभावात्, ब्राह्मणं नतोऽप्यशक्यब्राह्मणात्मनाशकर्तृत्वाभावेन ब्रह्महन्तृत्वासम्भवात् ; ब्राह्मणशरीरावच्छिन्नज्ञानजनकमनःसंयोगविशेषनाशानुकूलो व्यापार एव ब्रह्महत्येति तादृशव्यापारकर्तुर्ब्रह्महन्तृत्वमुपपद्यत इति चेत् ? न-मनसोऽतिचञ्चलत्वेनानवरतमनःक्रियात एव जायमाननाशप्रतियोगिनस्तादृशमनस्संयोगस्य स्वत एव नश्वरत्वात् , परम्परया तथाघातसम्भवेऽपि साक्षाद्घातानुपपत्तेश्च; ब्राह्मणशरीरावच्छिन्नदुःखविशेषानुकूलव्यापार एव ब्रह्महत्येति चेत् ? शरीराच्छरीरिणः सर्वथा भेदे शरीरच्छेदादिनाऽऽत्मनो दुःखमपि कथं भवेत् ?; शरीरच्छेदस्य स्वप्रतियोगिशरीरावच्छिन्नलक्षणपरम्परासम्बन्धेनात्मसम्बद्धत्वात् तादृशदुःखविशेषानुकूलव्यापारत्वमिति चेत् ? शरीरावयवच्छेदादात्मावयवच्छेद एव शरीरात पृथग्भूतावयवस्य कम्पोपलब्धेः साक्षादेव कथं न च्छेदसम्बन्ध आत्मनः, आत्मप्रदेशस्य च्छिन्नस्य छिन्नशरीरावयवगतत्वाभावे छिन्नशरीरावयवकम्प एव न भवेत् प्राणक्रियाया अपि तन्मात्रोपग्रहं विनाऽभावात् ; नन्वेवं शरीरच्छिन्नावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः स्यादिति चेत् ? न-यस्माच्छरीराच्छिन्नावयवः पृथग्भूतस्तस्मिन्नवयवेऽनुप्रविष्टानामात्मप्रदेशानां पश्चाच्छरीर एवानुप्रवेशात् कियत्कालं छिन्ने शरीरावयवे हस्तादौ कम्पादितल्लिङ्गदर्शनेन च्छिन्नात्मप्रदेशानां सद्भावसिद्धावपि पश्चात् तत्र तल्लिङ्गकम्पाद्यदर्शनेन तच्छरीरानुप्रवेशस्य कल्पनात् ; न चैकत्वे आत्मनो विभागाभावाच्छेदो न सम्भवतीति वाच्यं, शरीरद्वारेणात्मनोऽपि सविभागत्वात् , सविभागत्वाभावे आत्मनः सावयवशरीरव्यापित्वं न स्यात् , तथा च शरीरच्छेदनान्तरीयकच्छेद आत्मनः किं न स्यात् ?; न चात्मनश्छिन्नाछिन्नप्रदेशयोः पश्चात् कथं सङ्घटनमिति चेत् ? न-एकान्तेन छिन्नत्वाभावात् , पद्मनालतन्तुवदच्छेदेऽपि छेदाभ्युपगमात्, सङ्घटनमपि तथाभूतादृष्टवशादविरुद्धमेव, हन्त ! एवं शरीरदाहेऽप्यात्मात्मदाहः स्यादिति चेत् ? न-क्षीर-नीरयोरिवाभिन्नत्वेऽपि भिन्नलक्षणत्वेन शरीरदाहेऽप्यात्मदाहाभावात् , तस्माद् देहादात्मन एकान्तपृथक्त्वे हिंसाद्यभावः, तदभावे हिंसाद्यभावे, अनिमित्तत्वात् , निमित्तसंनिधानाभावात् , कथं शुभाशुभो बन्धः शुभाशुभयोभिन्नत्वेन द्विवचनस्यैव प्राप्तौ यदेकवचनं तदुपपत्तये इत्थमत्र विमर्शः-अत्र शुभश्वाशुभश्चेति विग्रहे द्विवचनापत्तिरतो न द्वन्द्वः, शुभश्चासावशुभश्चेति विग्रहे शुभत्वाशुभत्वरूपविरुद्धधर्माध्यासात् तयोरभेदेन विशेषणविशेष्यभावो न सम्भवतीति न कर्मधारयः किन्तु शुभेन सहितोऽशुभ इति व्याख्येयम् ॥ ३२ ॥ २२५॥"

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262