Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
[तृतीयः
शास्त्रवार्तासमुच्चयः । कत्वासम्भवात् , किञ्चात्मनो महत्त्वं न सर्वथा नित्यं, प्रदीपप्रभाया इवात्मनः सङ्कोच-विकाशाभ्यां परिमाणभेदस्याभ्युपगन्तव्यत्वादिति विभुत्वसाधकतयोपन्यस्तं नित्यमहत्त्वलक्षणं लिङ्गमेवासिद्धम् ; किञ्चात्मनो विभुत्वे आकाशादिवन्निष्क्रियत्वमपि सस्य, तथा च कथं तस्य स्वस्मिन् क्रियाप्रतीतिः?, क्रियायास्तत्राभावे श्रूयमाणं तत्र तीर्थगमनादिहेतुकमदृष्टं कथमुपपत्तिपद्धतिमेति ? सर्वगतस्यात्मनः स्वीयत्वेनाभिमतशरीरावच्छिन्नत्वस्येवान्यशरीरावच्छिन्नत्वस्यापि सद्भावाद् घटाद्यवच्छेदेनात्मनि ज्ञानाद्युत्पत्तिवारणायावच्छेदकतासम्बन्धेन ज्ञानादिकं प्रति तादात्म्यसम्बन्धेन शरीरत्वेन शरीरस्य कारणत्वेऽपि स्वशरीर इव कारणतावच्छेदकशरीरत्वधर्माकान्तत्वेन शरीरान्तरेऽपि कथं न तदात्मीयज्ञानाद्युत्पत्तिः?, अवच्छेदकतया तदात्मीयज्ञानादिकं प्रति तादात्म्येन तदीयशरीरत्वेन कारणत्वेऽपि शरीरे तदीयत्वं यदि तदात्मसंयुक्तत्वं तदा विभोस्तदात्मनः संयोगो यथाऽभिमतशरीरे तथा शरीरान्तरेऽपीति तस्यापि तदात्मीयशरीरत्वरूपकारणतावच्छेदकधर्माकान्तत्वं स्यात् , अथ तदात्मगतादृष्टोपगृहीतत्वं तदा शरीरस्य कारणत्वं तददृष्टकारणत्वमन्तरेण न संभवतीत्युपजीव्यत्वात् तददृष्टस्यैव तज्ज्ञानादिकं प्रति कारणत्वमिति तददृष्टस्य तच्छरीरव्यामित्वेन तदात्मनोऽपि तच्छरीरव्यापित्वसिद्धौ न विभुत्वम् , तदुक्तं-“यत्रैव यो दृष्टगुणः स तत्र" [अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ९] इत्यादि, आत्मनो विभुत्वे ज्ञानादीनामव्याप्यवृत्तित्वादिकल्पने गौरवमपीति । ___ अन स्याद्वाद्यभ्युपगतात्माऽविभुत्ववादे श्रोतॄणां विवेकावधारणपरायणानामविचलितश्रद्धोत्पत्तये श्रीमद्भिर्यशोविजयोपाध्यायैः स्वोपज्ञन्यायखण्डखाद्यव्याख्यासनाथीकृतमहावीरस्तवप्रकरणे न्यायमतखण्डनप्रवणा युक्तय उपदर्शिता एव तहन्थोल्लेखतः प्रकटीक्रियन्ते"स्वाहाभुजो ज्वलनमूर्ध्वमपि स्वभावात् ,
सम्बन्धभेदकलितादथवाऽस्त्वदृष्टात् । दिग्देशवर्तिपरमाणुसमागमोऽपि,
तच्छक्तितो न खलु बाधकमत्र विद्मः" ॥ ७१ ॥ मात्मनो विभुत्वाभावे नानादिग्वर्तिदहनादिषु ज्वलनादिक्रियाणां युगपददृष्टवदात्मसंयोगाभावाद् युगपदनुत्पत्तिप्रसङ्गः, आत्मगुणस्य साक्षाक्रियाद्वारकस्वाश्रयसंयुक्तसंयोगेनैव क्रियाजनकत्वस्य प्रयत्नस्थले दृष्टत्वादिति प्राचीननैयायिकैर्यद्

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262