Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१५२ शास्त्रवार्तासमुच्चयः ।
[तृतीयः तेन सम्बन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्" इति, तदपि न युक्तम्-नहि यद् येन युक्तं तदेव तं प्रत्युपसर्पतीति नियमः संभवी, अयस्कान्तं प्रत्ययसस्तेनासंयुक्तस्याप्युपसर्पणोपलब्धेः; अथासंयुक्तस्याप्याकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गान्न जाने तच्छरीरं कियत्प्रमाणं स्यादिति चेत् ?, संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेत् ?, आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् ; अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति, तांदतरत्रापि तुल्यम् , तदाह-दिग्देशवर्तिनामर्थानां-नानादिग्देशवर्तिनां परमाणूनां समागमोऽपि, तच्छक्तितः-अदृष्टशक्तिमहिम्नोपपद्यत इत्यत्र न खलु बाधकं विद्म इति, तावत्परिमाणतच्छरीरव्यक्तौ तथाभव्यत्वस्य दृष्टकारणानां चादृष्टजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्न एव हेतुत्वान्नातिप्रसङ्ग इति निष्कर्षः ॥ बाधकान्तरनिराचिकीर्षयाऽऽह
"मूर्तत्व-सावयवता-निजकार्यभाव___ च्छेद-प्ररोह-पृथगात्मकताप्रसङ्गाः । सो इवातिविकरालदृशोऽपि हि त्व
त्स्याद्वादगारुडसुमन्त्रभृतां न भीत्यै” ॥ ७२ ॥ आत्मनोऽव्यापकत्वे मूर्तत्वं स्यात् , तथा च सावयवं शरीरं प्रत्यवयमनुप्रविशनात्मा सावयवः स्यात् , एवं च निजकार्यभावः-आत्मनः कार्यता स्यात् , पटादिवत् ; किञ्चात्मनः कायप्रमाणत्वे तच्छेदाच्चछेदस्तत्प्ररोहाच्च प्ररोहः स्यात्, तथा खण्डितावयवानुप्रविष्टस्य पृथगात्मता स्यादित्यादयः प्रसङ्गाः, सर्पा इवातिविकरालदृशोऽपि हि तव यः स्याद्वादरूपो गारुडसुमन्त्रस्तं बिभ्रति ये तेषां भीत्यै न भवन्ति, एकान्तवादिनस्तु ततो भीताः पलायन्त एवेति गरीयान् भवतः प्रवचनमहिमेति भावः, तत्र यत् तावदुक्तं-मूर्तत्वं स्यादिति तदिष्यत एव; न चैवं मूर्तस्य मूर्तशरीरानुप्रवेशविरोधस्ततो निरात्मकमेवाखिलं शरीरं स्यादिति वाच्यम् , असर्वगतस्यापि मनसः शरीरानुप्रवेशस्य त्वयाऽभ्युपगमात्, तद्वदेवासर्वगतत्वेनात्मनो रूपादिमत्त्वलक्षणस्य मूर्तत्वस्य चापादयितुमशक्यत्वात् , तादृशमूर्तत्वोपेतस्य जलादेर्वालुकादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि शरीरेऽसौ निषिध्यते, इति महत् साहसम् , सावयवत्व-कार्यत्वे अप्यात्मनः कथञ्चिदिष्टे एव, असङ्ख्येयप्रदेशात्मकत्वेन सावयवत्वात्, प्रदेशेष्वप्यवयवव्यवहारात् , दशाद्य

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262