Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 210
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः विजातीयमनसां भोगविशेषहेतुत्वान्नानुपपत्तिरिति वाच्यम्, विशिष्य गुरुतरकार्यकारणभावकल्पनं विना तथास्वाभाव्या निर्वाहात्, तत्कल्पने च महागौरवमिति ॥ १५५ अथ प्रत्यंशं प्रत्यवयवं, छिन्नाच्छिन्ननानावयवस्थलेऽवच्छेदकान्तरसंवलितावच्छेदकसमाजमहिम्ना नानारूपवदवयवारब्धेऽवयविनि नानारूपवन्नानाभोगा आत्मनि समर्थ्यन्ते, अवच्छेदकभेदेन विरोधपरिहारात्; अवच्छेदकान्तरसंवलनं च स्वविजातीयत्वे सति सम्बन्धविशेषेण स्वाश्रयाश्रिताश्रयत्वप्रत्यासत्त्या सामानाधिकरण्यं, तेन नैकावच्छेदेन नानाभोगापत्तिरिति चेत् ?, न-अहं शरीरी मयि शरीरमिति प्रतीत्याऽऽत्मनः शरीराश्रयत्वेऽपि तव मते शरीरस्य तदनाश्रयत्वात्, स्वाश्रयाश्रितत्वस्थाने स्वसम्बद्धसम्बन्धित्वदाने चैकत्र प्रत्यवयवं नानाभोगसङ्करस्य दुर्वा - रत्वात्, मिथोविजातीयानां करचरणादीनां मिथः संवलितत्वात्, संवलघटकस्य वैजात्यस्य शरीरतदवयवान्यतरत्वव्याप्यजात्यपेक्षयैव ग्रहणात्, अन्यथाऽसम्भवात् ; अथ नानाविषयावच्छिन्नसमूहालम्बनज्ञानमिवैकत्र शरीरे नानावयवावच्छेदेनोत्पद्यमानोऽपि भोगोऽविरोधादेक एव, एकादृष्टजन्यत्वात्, पृथग्भोगायतनजन्याः पुनर्नानैव भोगाः, एकत्र समावेशस्तेषामवच्छेदभेदाच्चित्रावयविनीव नीलादीनाम् ; न च सव्यापारदानादिसत्त्वेऽपि मनुष्यशरीरसत्त्वे देवशरीरानुत्पादानुत्पादादेकभोगायतनस्य भोगायतनान्तरप्रतिबन्धकत्वान्नैवमिति वाच्यम्, तद्वृत्तिलाभकालापेक्षतददृष्टस्य देवादिशरीर हेतुत्वेनोक्तप्रतिबन्धकत्वकल्पने मानाभावादिति चेत् ?, न- तथाऽपि विपक्षोदयप्रकृतीनां विरुद्ववृत्तिलाभकालत्वेन युगपन्नानाभोगायतनजन्यभोगासम्भवात्, अन्यथा मनुष्यशरीरसत्त्व एव कुतो न देवशरीरजनकादृष्टवृत्तिलाभ इत्यस्य प्रष्टव्यत्वापत्तेः; मनुष्यस्यापि सत इष्टेन पूतनेत्यादिवचनाद् दिव्योपभोग इष्यत एवेति चेत् ?, न - तद्वचनस्यौपचारिकत्वात्, नानादानादिक्रियोत्पन्नकालिका पूर्वजनितपरमापूर्वफलोपभोगस्य देवशरीरं विनाऽसम्भवात्; अथ भवधारणीयशरीरैक्ये आन्तरालिकभोगायतनभेदेऽपि छिन्नावयवस्थले न भोगभेदानुपपत्तिर्न वा भवभेदापत्तिः, भवतामौदारिकशरीरवतां वैक्रियलब्धिमतां वैक्रियोत्पादकाल इवेति चेत् ?, न- विरुद्ध भोगजनकानां तावदद्दष्टानां युगपल्लब्धवृत्तिकत्वे प्रमाणस्य मृग्यत्वात् भवधारणीयैक्ये भवैक्यं तदैक्ये च तदैक्यमित्यन्योन्याश्रयाच्च, अस्माकं तु गतिजात्यादिनिधत्तायुः कर्म विपाकोदयजनितमनुष्यादिपर्यायात्मकभेदस्य स्वाविष्वग्भूतभोगायतनतया भोगावच्छेदासाङ्कर्य्यस्य च नानुपपत्तिरात्मनोऽव्यापकत्ववादे, इयतैव तवागमिकैः - त्वत्सिद्धान्तवेदिभिः परेषां - . ,

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262