________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
विजातीयमनसां भोगविशेषहेतुत्वान्नानुपपत्तिरिति वाच्यम्, विशिष्य गुरुतरकार्यकारणभावकल्पनं विना तथास्वाभाव्या निर्वाहात्, तत्कल्पने च महागौरवमिति ॥
१५५
अथ प्रत्यंशं प्रत्यवयवं, छिन्नाच्छिन्ननानावयवस्थलेऽवच्छेदकान्तरसंवलितावच्छेदकसमाजमहिम्ना नानारूपवदवयवारब्धेऽवयविनि नानारूपवन्नानाभोगा आत्मनि समर्थ्यन्ते, अवच्छेदकभेदेन विरोधपरिहारात्; अवच्छेदकान्तरसंवलनं च स्वविजातीयत्वे सति सम्बन्धविशेषेण स्वाश्रयाश्रिताश्रयत्वप्रत्यासत्त्या सामानाधिकरण्यं, तेन नैकावच्छेदेन नानाभोगापत्तिरिति चेत् ?, न-अहं शरीरी मयि शरीरमिति प्रतीत्याऽऽत्मनः शरीराश्रयत्वेऽपि तव मते शरीरस्य तदनाश्रयत्वात्, स्वाश्रयाश्रितत्वस्थाने स्वसम्बद्धसम्बन्धित्वदाने चैकत्र प्रत्यवयवं नानाभोगसङ्करस्य दुर्वा - रत्वात्, मिथोविजातीयानां करचरणादीनां मिथः संवलितत्वात्, संवलघटकस्य वैजात्यस्य शरीरतदवयवान्यतरत्वव्याप्यजात्यपेक्षयैव ग्रहणात्, अन्यथाऽसम्भवात् ; अथ नानाविषयावच्छिन्नसमूहालम्बनज्ञानमिवैकत्र शरीरे नानावयवावच्छेदेनोत्पद्यमानोऽपि भोगोऽविरोधादेक एव, एकादृष्टजन्यत्वात्, पृथग्भोगायतनजन्याः पुनर्नानैव भोगाः, एकत्र समावेशस्तेषामवच्छेदभेदाच्चित्रावयविनीव नीलादीनाम् ; न च सव्यापारदानादिसत्त्वेऽपि मनुष्यशरीरसत्त्वे देवशरीरानुत्पादानुत्पादादेकभोगायतनस्य भोगायतनान्तरप्रतिबन्धकत्वान्नैवमिति वाच्यम्, तद्वृत्तिलाभकालापेक्षतददृष्टस्य देवादिशरीर हेतुत्वेनोक्तप्रतिबन्धकत्वकल्पने मानाभावादिति चेत् ?, न- तथाऽपि विपक्षोदयप्रकृतीनां विरुद्ववृत्तिलाभकालत्वेन युगपन्नानाभोगायतनजन्यभोगासम्भवात्, अन्यथा मनुष्यशरीरसत्त्व एव कुतो न देवशरीरजनकादृष्टवृत्तिलाभ इत्यस्य प्रष्टव्यत्वापत्तेः; मनुष्यस्यापि सत इष्टेन पूतनेत्यादिवचनाद् दिव्योपभोग इष्यत एवेति चेत् ?, न - तद्वचनस्यौपचारिकत्वात्, नानादानादिक्रियोत्पन्नकालिका पूर्वजनितपरमापूर्वफलोपभोगस्य देवशरीरं विनाऽसम्भवात्; अथ भवधारणीयशरीरैक्ये आन्तरालिकभोगायतनभेदेऽपि छिन्नावयवस्थले न भोगभेदानुपपत्तिर्न वा भवभेदापत्तिः, भवतामौदारिकशरीरवतां वैक्रियलब्धिमतां वैक्रियोत्पादकाल इवेति चेत् ?, न- विरुद्ध भोगजनकानां तावदद्दष्टानां युगपल्लब्धवृत्तिकत्वे प्रमाणस्य मृग्यत्वात् भवधारणीयैक्ये भवैक्यं तदैक्ये च तदैक्यमित्यन्योन्याश्रयाच्च, अस्माकं तु गतिजात्यादिनिधत्तायुः कर्म विपाकोदयजनितमनुष्यादिपर्यायात्मकभेदस्य स्वाविष्वग्भूतभोगायतनतया भोगावच्छेदासाङ्कर्य्यस्य च नानुपपत्तिरात्मनोऽव्यापकत्ववादे, इयतैव तवागमिकैः - त्वत्सिद्धान्तवेदिभिः परेषां -
.
,