________________
१५६ शास्त्रवार्तासमुच्चयः ।
[तृतीयः नैयायिकानां, योगिषु कायव्यूहोऽपि-कायव्यूहाभ्युपगमोऽपि निरस्तः, नहि परिच्छिन्नस्यात्मनो देहान्तरसञ्चारो जन्मपदार्थः, परिष्यते, किन्त्ववस्थितस्यैव देहान्तरसम्बन्धः, तथा च योगिनामेकदा नानाकर्मफलोपभोगाय तुरङ्ग-कुरङ्गविहङ्ग-मतङ्गज-शम्बर-घूक-किरात-शृगाल-बिडालादिशरीरपरिग्रहाभ्युपगमे एकत्र भवे भवसहस्रसङ्करस्य दुर्वारत्वात् , किञ्चैवं नरकादिदुःखजनकब्रह्महत्यादिप्रयोजका. दृष्टसत्त्वे योगिनां नारकब्रह्मघातकशरीरपरिग्रहोऽपि स्यादिति महद् वैशसम् ; तादृशादृष्टविरह एव तत्त्वज्ञानोत्पत्तिरिति चेत् ?, शूकरादिशरीरोत्पादकादृष्टासत्त्व एव तत्त्वज्ञानोत्पत्तिरित्यपि किमिति न रोचयेः । तत्त्वज्ञानजन्यशूकरादिवैलक्षण्यानायं दोष इति चेत् ?, तर्हि तत्त्वज्ञानादृष्टजन्यतावच्छेदिकयोः साङ्कर्यम् , कथं च तत्त्वज्ञानेन कायव्यूहजननेऽप्यनन्तकालपरिसमाप्यक्रमिकशूकरादिशरीरोपभोग्य-" नानाफलजननम् , कथं च तद्विना शूकरादिशरीरोपभोग्यचरमफलं विनाऽदृष्टनाशः? कथं च तमन्तरेण मोक्षोत्पत्तिरिति विचारणीयमायुष्मता; शूकरादिशरीररोपभोगमप्यदृष्टफलं योगिनां स्वायुर्निमित्तमेव तत् कल्प्यत इति चेत् ?, तर्हि लाघवात् तदनुपभोग्यमेव, तच्च भवोपग्राह्यादृष्टचतुष्टयाख्यम्, तत्राप्यनुभवः कर्मत्रयस्याधिकस्थितिकत्वे तत्समीकरणाथ भगवतः केवलिसमुद्घातारम्भः, आयुस्तु कर्मत्रयादधिकस्थितिकं स्वभावादेव न भवति, केवलिसमुद्घात एव च परेषां कायव्यूहभ्रमः, तदालम्बनेनैव चेश्वरस्य सर्वावेशप्रतिपादिका श्रुतिरिति युक्तं पश्यामः ॥
तथा आत्मा यदि न क्रियामुपगतोऽक्रिय एवेत्यर्थः, तदा प्रागेव-शरीरोत्पत्तेरादावेव, काययोगः-कायोत्पत्त्यनुकूलः प्रयत्नः, को न-कश्चिदेव, तच्छरीरजन्यस्य तदात्मविशेषगुणस्य तदभावेऽभावात् ,तथा चादृष्टाकृष्टानामपि परमाणूनामाहारतया ग्रहणस्य शरीरतया परिणमनस्य चाभावे आदित एव शरीरानुत्पत्तौ संसारोच्छेदः, न च शरीरोत्पत्तावदृष्टमेव हेतुन तु यत्न इति वाच्यम् , शरीरोत्पत्त्यनन्तरमप्याहारादिपरिणामस्य श्वासप्रश्वासादिसन्तानस्य च तत एवोत्पत्तौ जीवनयोनियनोच्छेदापत्तेः, तथा च स्वापादौ शरीरेऽपि प्रयत्नासमवायिकारणकक्रियाऽभावान्निश्चेष्टत्वं स्यात् , अदृष्टजन्यक्रिया च वयूद्धज्वलनादिनाऽतिप्रसङ्गिनी, सम्बन्धविशेषस्त्वदृष्टस्य कायेन सहान्योऽन्यानुगमाख्यः पुद्गलात्मकत्व एव घटते, बन्धननामकर्मप्रयुक्तत्वात् : प्रवृत्तिरूपोऽपि प्रयत्न आत्मप्रदेशपरिस्पन्दान्नातिरिच्यते, सविषयकत्वं च तस्य ज्ञानोपाधिकमन्यथा वेत्यन्यदेतत् , आकाशादिव्यावृत्तोऽन्योऽन्यानुप्रवेशरूपः शरीरसंयोग एव चात्मनि क्रियामनुमापयति, तस्योभयकर्मजत्वात् , विशिष्ट