________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१५७ त्वादेव च तस्यादृष्टाद्यप्रवेशेन क्रियाफलसामानाधिकरण्यनियामकत्वम् , तेन तदनुरुद्धबहुतरकार्यकारणान्तरकल्पनागौरवं परिहृतं भवति, तस्मादाचे क्षणे कार्मणकाययोगाख्येनात्मपरिस्पन्देनाभ्यवहृतिराहारग्रहणं, तच्छक्तरेकक्षण एव निष्पन्नत्वेनाह्रियमाणस्याहृतत्वात् , ततोऽनु तनुसर्ग शरीरपर्याप्तिनिष्पत्तिं यावत् , मिश्राद्-औदारिकमिश्रात् काययोगादभ्यवहृतिः, ततश्च निष्पन्नायां शरीरपर्याप्ती तेन तमालम्ब्यौदारिककाययोगेन लोमाहार-कवलाहारान्यतरग्रहणमिति तु भवतो वचोऽमोघम्, शरीरनिष्पत्तेः पूर्व पश्चादपि चात्मनः सक्रियत्व एव चाहारित्वोपपत्तेः, तदनुपपत्तौ च परेषां संसाराभाव इति, तदिदमुक्तं पारमर्षे
“जोगेण कम्मएण, आहारेइ अणंतरं जीवो। . तेण परं मीसेणं, जायसरीरस्स णिप्फत्ति ॥”[ ] इति । निष्पन्ने च शरीरे औदारिकादिकाययोगेनाहारग्रहणं प्रतीतमेव ॥ .
नन्वेकरमादेव वीर्यात् कथं ग्रहणादिवैचित्र्यमत आह-त्वया सकरणं वीर्यमात्मनि, आलम्बनं च ग्रहणं च सतः परिणामश्व तैः शालत इत्येवंशीलं गदितं, तेनैव सक्रियतया निखिलस्य प्रागुक्तस्योपपत्तिः, एकस्यापि वीर्यस्यासङ्ख्ययोगस्पर्द्धकनिष्पन्नस्य पृथगनन्तपर्यायावगुण्ठितस्य ग्रहणादिकार्यभेदेन नामभेदेऽपि तत्त्वतोऽभेदात् , कार्याभ्यासादिवशेन क्वचित् क्वचित् प्रदेशे तीव्रमन्दादिभावस्य चादुष्टत्वादिति भावः । तदुक्तं श्रीशिवशर्मसूरिभिः
"परिणामालंबणगहणसाहणं तेण लक्षूणामतिगं । कजब्भासण्णुण्णप्पवेसविसमीकयपये संति ॥" त्वद्वेषिणां तु नैयायिकानां 'भगवन् ! बन्ध-मोक्षौ नावितथौ, अभिनवकर्मादानरूपस्य बन्धस्य पूर्वदेशविभागपूर्वकोत्तरसिद्धिक्षेत्रप्राप्तिरूपस्य च मोक्षस्य च निष्क्रियात्मन्यसंभवात् , उपचरितौ च बन्ध-मोक्षौ न पुरुषार्थाविति; एतेन आत्मा निष्क्रियो नित्यत्वे सत्यस्मदादिप्रत्यक्षत्वात्' इत्यादिकमपास्तम् , अप्रयोजकत्वात् , अन्यथा ततो बाह्यत्वस्यापि सिद्ध्यापत्तेः, आभोगवीर्यात्मकक्रियावत्त्वस्य प्रत्यक्षसिद्धत्वेन कालात्ययापदिष्टत्वात् , आत्मा सक्रियः क्रियाजनकसंयोगाजन्यसंयोगाश्रवत्वाच्छरीरवदित्यादिना प्रतिरोधाचेति दिक्” इति ॥ ४३ ॥ २३६ ॥ ___ उपसंहरति-एवमिति-उक्तेन प्रकारेणेत्यर्थः, प्रकृतिवादोऽपि प्रकृतेर्महान् महतोऽहङ्कार इत्यादिसाङ्ख्याभिमतपञ्चविंशतितत्त्ववादोऽपि, हि निश्चितम् , सत्य