________________
१५८ शास्त्रवार्तासमुच्चयः।
[तृतीयः एव यथार्थ एव, एवकारेणानृतत्वव्यवच्छेदः, विज्ञेयः ज्ञातव्यः, तत्सत्यत्वे युक्त्यन्तरमुपपादकमाह-कपिलोक्तत्वं चैवेति-व्यार्थिकनयावलम्बिकपिलमुनिप्रणीतत्वादेवेत्यर्थः, प्रकृतिवादः सत्य एव कपिलमुनिप्रणीतत्वादित्यनुमानमत्र पर्यवसितं, तत्र कपिलोऽसत्यभाषी भविष्यतीत्यतस्तत्प्रणीतत्वं न सत्यत्वनियतमिति कपिलप्रणीतस्वमस्तु सत्यत्वं मास्त्विति व्यभिचारशकानिवृत्तये तर्कमुपदर्शयति-दिव्यो हि स महामुनिरिति । हि यतः, स कपिलनामा, महामुनिः मुनीनां प्रबरः, दिव्यः भद्भुतशीलाधाचरणशीलः, तथा चाद्भुतशीलाबाचरणशीलत्वान्यथानुपपत्त्या सत्यभाषित्वं सत्यभाषिप्रणीतत्वाच प्रकृतिवादस्य सत्यत्वम् , सत्यता चेश्वरकृष्णोपदर्शितदिशा न सम्भवति किन्त्वनेकान्तवादाश्रयणेनेत्याशयः ॥ ४४ ॥ २३० ॥ एकान्ताभिनिवेशमात्रदलनात् साङ्ख्येऽपि सङ्ख्यावतां,
सख्यं भावितमिष्टयुक्तिघटनादक्षेण यत्सूरिणा। तेनास्था जिनवाचि यस्य भविता मूढस्य नो वादिन
स्तस्मिन् कर्मप्रचारभारघटना जीवे भवानन्त्यदा ॥ १॥ , इति श्रीतपोगच्छाधिपति-शासनसम्राट्-सर्वतत्रवतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीवरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चय
टीकायां तृतीयः स्तबकः समाप्तः ॥
w
www