________________
१५४
शास्त्रवार्तासमुच्चयः ।
"स्युर्वैभवे जननमृत्युशतानि जन्मन्येकत्र पाटितशतावयवप्रसङ्गात् । चित्तान्तरोपगमतो बहुकार्यहेतुभावोपलोपजनितं च भयं परेषाम् ॥ ७३ ॥ प्रत्यंशमेव बहुभोगसमर्थने तु,
स्यात् सङ्करः पृथगदृष्टगवृत्तिलाभे । मानं तु मृग्यमियतैव हतश्च कायव्यूहोऽपि योगिषु तवागमिकैः परेषाम् ॥ ७४ ॥
नात्मा क्रियामुपगतो यदि काययोगः, प्रागेव को न खलु हेतुरदृष्टमेव । आद्ये क्षणेऽभ्यवहृतिः किल कार्मणेन, मिश्रात् ततोऽनु तनुसर्गमिति त्वमोघम् ॥ ७५ ॥
वीर्यं त्वया सकरणं गदितं किलात्म
न्यालम्बनग्रहणसत्परिणामशालि ।
तेनास्य क्रियतया निखिलोपपत्तिस्त्वद्वेषिणामवितथौ न तु बन्ध-मोक्षौ ॥ ७६ ॥
[ तृतीयः
वैभवे-आत्मनो विभुत्वेऽभ्युपगम्यमाने, एकत्र जन्मनि - एकजन्ममध्ये, पाटि - तानां शतधा छिन्नानां गृहगोधिकादीनां शतावयवेषु युगपत्कम्पोपलम्भेन तदनुमेयदुःखोपभोगार्थं चित्तान्तरप्रवेशोपगमतो भोगायतनत्वस्य प्रसङ्गात्, भोगायतनशतसम्बन्धाच्छतं जन्मनि तावदवच्छिन्नस्मृत्यजनकमनः संयोगविगमात् तावन्ति मरणानि च स्युः, एवं च तद्वदेव क्रमिकनानाजन्ममरणोपभोग्यकर्मणामेकजन्मपरिसमाप्यत्वसम्भावनया वैराग्यव्याघातः शास्त्रानाश्वासप्रसङ्गश्च । किञ्चैवं बहुकार्य हेतुभावो पलोपजनितमपि भयं परेषामुपतिष्ठत एव, तथाहि - तज्जन्मोपभोग्यतदात्मवृत्तिभोगत्वावच्छिन्ने तच्छरीरत्वेन हेतुताऽपि न व्यवस्थिता, छिन्नावयवानां द्रव्यान्तरत्वात् एवं तच्छरीरप्राणमनोयोगत्वादिनाऽपि, उक्तस्थले व्यभिचारात् ; न च तच्छरीरारम्भकपरमाण्वारब्धत्वादिना हेतुत्वान्न व्यभिचार इति वाच्यम्, मनसि तथा वक्तुमशक्यत्वात् तस्य परैर्नित्याणुत्वाभ्युपगमात्; न च छिन्नाच्छिन्नावयवानुप्रविष्टेषु मनस्स्वेकं वैजात्यमस्ति, छिन्नावयवविनिर्गतनानामनोयोगादच्छिन्नावयवे भूतावेशप्रवेशप्रसङ्गात् ; न च भिन्नभिन्नभोगायतनावच्छेदेनैव
S
"