________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१५३ वच्छेदेन पटोत्पत्तिवारणायावच्छेदकतासम्बन्धेन द्रव्यत्वावच्छिन्नं प्रति तादात्म्येन हेतुतया देशत्वस्य विलक्षणस्य सिद्धेः, इत एवात्मादीनां देशितया कार्यत्वसिद्धौ तद्वयावृत्तकार्यत्वस्य देशकार्यतावच्छेदककोटी प्रवेशेऽप्रामणिकगौरवापत्तेः, न चात्मनः कार्यत्वे घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसिद्धिः, अवयवा ह्यवयविनमारभन्ते, यथा तन्तवः पटमिति चेत् ?, न-न खलु घटादावपि कार्य प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टं, कुम्भकारादिव्यापारान्वितान्मृत्पिण्डात् प्रथममेव तदुत्पत्तिप्रतीतेः, द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वं, तच्च बहिरिवान्तरप्यनुभूयत एवेत्यतोऽपि स्यात् कार्य एव; न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावापत्तेः, स्ताद् वा स्वप्रदेशसङ्कोचविकासात्मकसंयोगनिष्ठैव तत्तच्छरीरानुप्रवेशनियामिका तत्तदात्मजनकतावच्छेदिका जातिः, पुद्गलजनकतावच्छेदिका तु द्विगुस्निग्धरूक्षत्वनियतेति कार्यत्वेऽप्यवान्तरवैजात्यम् ; न चात्मनः कार्यत्वे प्रतिसन्धानानुपपत्तिः, तत्र नित्यानित्यत्वप्रतिबन्धस्य बहुशो दर्शितत्वात् ; एतेनैव 'बाल्यादिभेदेन शरीरस्येव तत्परिमाणस्यात्मनोऽपि भेदात् शरीरध्वंसे तद्ध्वंसात् परलोकाभावः' इत्यप्यपास्तम्, तच्छरीरसन्तानोपहितपर्यायसमनियतत्वाभावात् तदात्मपर्यायमहासन्तानस्य; न च तद्रव्यत्वेनानित्यत्वसाधकमपि तस्य किञ्चिदस्ति, छेदप्ररोहावप्यात्मनः कायच्छेद-प्ररोहयोः कथञ्चिदिष्टावेव, अन्योऽन्यानुस्यूतप्रदेशत्वात् , इयाँस्तु विशेषः-छिन्नशरीरावयवप्ररोहस्तजातीयोत्पत्तिः, आत्मप्रदेशप्ररोहश्च तत्रानुप्रवेशः, एवं छेदोऽपि शरीरस्य छिन्नावयवत्वेनोत्पत्तिः, कथञ्चिदात्मच्छेदश्च शरीरसम्बद्धात्मप्रदेशानां कतिपयानां छिन्नावयवानुप्रवेश इति, यदि च नैवं स्वीक्रियते तदा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् , पद्मनालतन्तुवदवच्छेदस्यापि स्वीकारात्, एकान्तेन छेदानभ्युपगमात् , उभयावयववृत्त्यात्मप्रदेशानां पश्चात् सङ्घटनोपपत्तिः, आकृष्यमाणप्रदेशत्वाच्चास्य मूर्तत्वं स्पष्टमेव, अत एव न छिन्नावयानामात्मप्रदेशानुप्रवेशेन पृथगात्मकताप्रसङ्गः, प्रविभक्तप्रदेशत्वस्यैव पृथक्त्वलक्षणत्वात् ; न चात्रात्मप्रदेशाः प्रविभक्ताः, शृङ्खलावयवन्यायेन परस्पराजहद्वृत्तित्वात् , अवस्थाभेदेनावस्थावद् भेदस्तु नात्यन्तभेदनियतः, उत्फणविफणावस्थसर्पवदिति न किञ्चिदेतत् । तस्मान्नोक्तदोषोपनिपातोऽव्यापकत्ववादे, प्रत्युत व्यापकत्ववाद एव तदुरितेत्यभिप्रायवान् आह