SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १५२ शास्त्रवार्तासमुच्चयः । [तृतीयः तेन सम्बन्धस्य चाभावादनुपायसिद्धः सर्वदा सर्वेषां मोक्षः स्यात्" इति, तदपि न युक्तम्-नहि यद् येन युक्तं तदेव तं प्रत्युपसर्पतीति नियमः संभवी, अयस्कान्तं प्रत्ययसस्तेनासंयुक्तस्याप्युपसर्पणोपलब्धेः; अथासंयुक्तस्याप्याकर्षणे तच्छरीरारम्भं प्रत्येकमुखीभूतानां त्रिभुवनोदरविवरवर्तिपरमाणूनामुपसर्पणप्रसङ्गान्न जाने तच्छरीरं कियत्प्रमाणं स्यादिति चेत् ?, संयुक्तस्याप्याकर्षणे कथं स एव दोषो न भवेत् ?, आत्मनो व्यापकत्वेन सकलपरमाणूनां तेन संयोगात् ; अथ तद्भावाविशेषेऽप्यदृष्टवशाद् विवक्षितशरीरोत्पादनानुगुणा नियता एव परमाणव उपसर्पन्ति, तांदतरत्रापि तुल्यम् , तदाह-दिग्देशवर्तिनामर्थानां-नानादिग्देशवर्तिनां परमाणूनां समागमोऽपि, तच्छक्तितः-अदृष्टशक्तिमहिम्नोपपद्यत इत्यत्र न खलु बाधकं विद्म इति, तावत्परिमाणतच्छरीरव्यक्तौ तथाभव्यत्वस्य दृष्टकारणानां चादृष्टजन्यतावच्छेदकजातिव्याप्यजात्यवच्छिन्न एव हेतुत्वान्नातिप्रसङ्ग इति निष्कर्षः ॥ बाधकान्तरनिराचिकीर्षयाऽऽह "मूर्तत्व-सावयवता-निजकार्यभाव___ च्छेद-प्ररोह-पृथगात्मकताप्रसङ्गाः । सो इवातिविकरालदृशोऽपि हि त्व त्स्याद्वादगारुडसुमन्त्रभृतां न भीत्यै” ॥ ७२ ॥ आत्मनोऽव्यापकत्वे मूर्तत्वं स्यात् , तथा च सावयवं शरीरं प्रत्यवयमनुप्रविशनात्मा सावयवः स्यात् , एवं च निजकार्यभावः-आत्मनः कार्यता स्यात् , पटादिवत् ; किञ्चात्मनः कायप्रमाणत्वे तच्छेदाच्चछेदस्तत्प्ररोहाच्च प्ररोहः स्यात्, तथा खण्डितावयवानुप्रविष्टस्य पृथगात्मता स्यादित्यादयः प्रसङ्गाः, सर्पा इवातिविकरालदृशोऽपि हि तव यः स्याद्वादरूपो गारुडसुमन्त्रस्तं बिभ्रति ये तेषां भीत्यै न भवन्ति, एकान्तवादिनस्तु ततो भीताः पलायन्त एवेति गरीयान् भवतः प्रवचनमहिमेति भावः, तत्र यत् तावदुक्तं-मूर्तत्वं स्यादिति तदिष्यत एव; न चैवं मूर्तस्य मूर्तशरीरानुप्रवेशविरोधस्ततो निरात्मकमेवाखिलं शरीरं स्यादिति वाच्यम् , असर्वगतस्यापि मनसः शरीरानुप्रवेशस्य त्वयाऽभ्युपगमात्, तद्वदेवासर्वगतत्वेनात्मनो रूपादिमत्त्वलक्षणस्य मूर्तत्वस्य चापादयितुमशक्यत्वात् , तादृशमूर्तत्वोपेतस्य जलादेर्वालुकादावनुप्रवेशो न निषिध्यते, आत्मनस्तु तद्रहितस्यापि शरीरेऽसौ निषिध्यते, इति महत् साहसम् , सावयवत्व-कार्यत्वे अप्यात्मनः कथञ्चिदिष्टे एव, असङ्ख्येयप्रदेशात्मकत्वेन सावयवत्वात्, प्रदेशेष्वप्यवयवव्यवहारात् , दशाद्य
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy