SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १५१ बाधकमुक्तं तत् तु शिरोमणिनैव दूषितं-“जनयतु प्रयत्नो यथा तथा, अदृष्टं तु यथा कथञ्चित् परम्परया स्वाश्रयसंयोगादेव जनयति, अतिप्रसङ्गस्तु वैभवेऽपि तुल्यः" इति ग्रन्थेन; यत् तु लाघवेन स्वाश्रयसंयोगेन तजनकताया एव कल्पनादात्मविभुत्वसिद्धिरिति तेनोक्तं, तत् तुच्छम्-अतिप्रसङ्गवारणे लाघवसहस्रस्याप्यकिञ्चिकरत्वात्, समवायेनोप्रज्वलनत्वावच्छिन्ने तादात्म्येन वह्नित्वेन हेतुत्वं कल्पयित्वाऽतिप्रसङ्गवारणे तु वृथा विशिष्यादृष्टहेतुत्वप्रत्याशा, अस्तु वा दहनत्वस्येवोप्रज्वलनस्यापि स्वभावादेव देशप्रतिनियमः, तदुक्तं मल्लिषेणाचार्येण"अथास्त्येव प्रमाण वढेरूद्धज्वलनं वायोस्तिर्यक् पवनं चादृष्टकारितमिति चेत् ? न-तयोस्तत्स्वभावत्वादेव तत्सिद्धेः, दहनस्य दहनशक्तिवदिति, पूर्वकल्पे स्वभावादित्यस्य स्वो भावः स्वभावस्तस्माद्धेतोरित्यर्थः, द्वितीयकल्पे च स्वस्वभावः सादिपरिणामस्तस्मादित्यर्थः; न च नोदनादीनां गुणानां गुणत्वव्याप्यैकजात्या क्रियात्वावच्छिन्ने हेतुत्वादूर्ध्वज्वलनमवश्यं वह्रदृष्टकारितम् , अत एव तस्य गुणत्वसिद्धिरपीति वाच्यम् , गुणसाक्षात्कारजनकतावच्छेदिकया साकयेण तथाहेतुत्वासिद्धेः; यदि च तत्रादृष्टहेतुत्व एवाग्रहस्तदाऽस्तु कार्यसामान्यजनकतावच्छेदकसम्बन्धेन तत्, नहि सोऽपि स्वाश्रयसंयोग एव, आकाशगतशब्दाव्याप्तेः, अजसंयोगनिषेधेन परैरात्माकाशसंयोगस्यानभ्युपगमात् , कालाकाशदिशामिवादृष्टस्यापि कार्यसामान्यजनकतावच्छेदकसम्बन्धस्यातिरिक्तस्यैव सिद्धेः, तदिदमाहसम्बन्धभेदकलितात्-सम्बन्धान्तरेण सम्बद्धात्, अथवाऽदृष्टादस्तु स्वाहाभुज ऊर्ध्वज्वलनमिति, एतेन• “न ज्वलत्यनलस्तिर्यग्-यदूर्ध्वं याति नानलः । ____ अचिन्त्यमहिमा तत्र, धर्म एव निबन्धनम्" ॥ १ ॥ इति हेमसूरिवचनं व्याख्यातम् ; वस्तुतोऽनिला-ऽनलयोर्गतिवसनामकर्मोदयरूपादृष्टविशेषेण साक्षादेव क्रियाजननमिति न काऽप्यनुपपत्तिः, अत एव तयोरनन्यप्रेरितगतिमत्त्वेन सचित्तत्वं गन्धहस्तिभाष्यादौ प्रसिद्धम् ; न च जीवविप्रमुक्तयोस्तयोर्व्यभिचारो, यदा कदाचिजीववत्त्वस्य साध्यस्य विवक्षितत्वेन तदभावात् , तद्दशायां च क्रियावत्त्वं च तयोः पूर्वप्रयोगाहितवेगवशादिति दिक् । यदपि बाधकमुक्तं केनचित्-"आत्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यकर्माभावस्तदभावादत्यन्तसंयोगस्य तन्निमित्तशरीरस्य
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy