SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ [तृतीयः शास्त्रवार्तासमुच्चयः । कत्वासम्भवात् , किञ्चात्मनो महत्त्वं न सर्वथा नित्यं, प्रदीपप्रभाया इवात्मनः सङ्कोच-विकाशाभ्यां परिमाणभेदस्याभ्युपगन्तव्यत्वादिति विभुत्वसाधकतयोपन्यस्तं नित्यमहत्त्वलक्षणं लिङ्गमेवासिद्धम् ; किञ्चात्मनो विभुत्वे आकाशादिवन्निष्क्रियत्वमपि सस्य, तथा च कथं तस्य स्वस्मिन् क्रियाप्रतीतिः?, क्रियायास्तत्राभावे श्रूयमाणं तत्र तीर्थगमनादिहेतुकमदृष्टं कथमुपपत्तिपद्धतिमेति ? सर्वगतस्यात्मनः स्वीयत्वेनाभिमतशरीरावच्छिन्नत्वस्येवान्यशरीरावच्छिन्नत्वस्यापि सद्भावाद् घटाद्यवच्छेदेनात्मनि ज्ञानाद्युत्पत्तिवारणायावच्छेदकतासम्बन्धेन ज्ञानादिकं प्रति तादात्म्यसम्बन्धेन शरीरत्वेन शरीरस्य कारणत्वेऽपि स्वशरीर इव कारणतावच्छेदकशरीरत्वधर्माकान्तत्वेन शरीरान्तरेऽपि कथं न तदात्मीयज्ञानाद्युत्पत्तिः?, अवच्छेदकतया तदात्मीयज्ञानादिकं प्रति तादात्म्येन तदीयशरीरत्वेन कारणत्वेऽपि शरीरे तदीयत्वं यदि तदात्मसंयुक्तत्वं तदा विभोस्तदात्मनः संयोगो यथाऽभिमतशरीरे तथा शरीरान्तरेऽपीति तस्यापि तदात्मीयशरीरत्वरूपकारणतावच्छेदकधर्माकान्तत्वं स्यात् , अथ तदात्मगतादृष्टोपगृहीतत्वं तदा शरीरस्य कारणत्वं तददृष्टकारणत्वमन्तरेण न संभवतीत्युपजीव्यत्वात् तददृष्टस्यैव तज्ज्ञानादिकं प्रति कारणत्वमिति तददृष्टस्य तच्छरीरव्यामित्वेन तदात्मनोऽपि तच्छरीरव्यापित्वसिद्धौ न विभुत्वम् , तदुक्तं-“यत्रैव यो दृष्टगुणः स तत्र" [अन्ययोगव्यवच्छेदद्वात्रिंशिका श्लो० ९] इत्यादि, आत्मनो विभुत्वे ज्ञानादीनामव्याप्यवृत्तित्वादिकल्पने गौरवमपीति । ___ अन स्याद्वाद्यभ्युपगतात्माऽविभुत्ववादे श्रोतॄणां विवेकावधारणपरायणानामविचलितश्रद्धोत्पत्तये श्रीमद्भिर्यशोविजयोपाध्यायैः स्वोपज्ञन्यायखण्डखाद्यव्याख्यासनाथीकृतमहावीरस्तवप्रकरणे न्यायमतखण्डनप्रवणा युक्तय उपदर्शिता एव तहन्थोल्लेखतः प्रकटीक्रियन्ते"स्वाहाभुजो ज्वलनमूर्ध्वमपि स्वभावात् , सम्बन्धभेदकलितादथवाऽस्त्वदृष्टात् । दिग्देशवर्तिपरमाणुसमागमोऽपि, तच्छक्तितो न खलु बाधकमत्र विद्मः" ॥ ७१ ॥ मात्मनो विभुत्वाभावे नानादिग्वर्तिदहनादिषु ज्वलनादिक्रियाणां युगपददृष्टवदात्मसंयोगाभावाद् युगपदनुत्पत्तिप्रसङ्गः, आत्मगुणस्य साक्षाक्रियाद्वारकस्वाश्रयसंयुक्तसंयोगेनैव क्रियाजनकत्वस्य प्रयत्नस्थले दृष्टत्वादिति प्राचीननैयायिकैर्यद्
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy