________________
स्तबकः ]
स्याद्वादवाटिकाटीका सङ्कलितः
चाकाशे न घटेनानुग्रहोपघाताविति न चात्मनः शरीरसमानमानत्वतोऽविभुत्वे सर्वमिदमुपपद्यते, शरीरसमानमानत्वमेव तु तस्य नाद्यापि सिद्धमिति चेत् ? न'आत्मा शरीरनियतपरिणामवान्, शरीरमात्रावच्छेदेनोपलभ्यमानज्ञानादिगुणववात्, यो यत्र दृष्टगुणः स तन्मानकः, यथा कपालद्वयोपलभ्यमानगुणको घटः कपालद्वयमानसमानमानकः' इत्यनुमानसिद्धेन शरीरपरिमाणसमानपरिमाणवत्त्वेनात्मनोऽविभुत्वस्य सिद्धेः; नन्वपकृष्टपरिमाणवत्त्वलक्षणमूर्तत्वस्योक्तानुमानतः सिद्धौ तत्र मूर्तत्वसंशयः स स्यादिति चेत् ? न - अप्रामाण्यज्ञानानास्कन्दितस्यैव तद्विशेष्यकतत्प्रकारकनिश्चयस्य तद्विशेष्यकतत्प्रकारकसंशयविरोधित्वेन निरुक्तात्मविशेष्यकमूर्तत्वप्रकारकग्रहेऽप्रामाण्यज्ञाने सति अप्रामाण्यज्ञानानास्कन्दितस्य मूर्तत्वनिश्चयस्य प्रतिबन्धकस्याभावात् तत्र मूर्तत्वसंशयस्योपपत्तेः न च आत्मनस्तावत् महत्परिमाणवत्त्वमवश्यमभ्युपेयम्, प्रत्यक्षत्वावच्छिन्नं प्रति क्लृप्तकारणभावस्य महत्त्वस्य द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन प्रत्यक्ष प्रति समवायसम्बन्धेन महत्त्वं कारणमिति विशिष्य द्रव्यप्रत्यक्षत्वावच्छिन्न कारणभावस्याहं सुख्यहं दुःखीत्यादिलौकिकप्रत्यक्षविषय आत्मनि सिद्धाववयवमहत्त्वाऽवयवबहुत्वाऽवयवप्रचयान्यतमाजन्यत्वेन नित्यतया आत्मा विभुर्नित्यमहत्त्वादाकाशवदित्यनुमानात् तस्य विभुत्वमेव युक्तमिति वाच्यम्, नित्य महत्त्वेऽप्यपकृष्टपरिमाणवत्त्वे बाधकाभावेनात्मनि नित्यमहत्त्वमस्तु विभुत्वं माऽस्त्विति व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वात् ; ननु गगनमहत्त्वावधिकापकर्षस्य बहुत्वजन्यतावच्छेदकतयाऽऽत्ममहत्त्वस्यापकृष्टत्वे तदाक्रान्तत्वेन जन्यत्वापत्तिरेव बाधिकेति चेत् ? नगगन महत्त्वाधिकापकर्षस्य नित्ये परमाणुपरिणामे बहुत्वाजन्येऽपि सत्तयाऽतिप्रसतत्वेन बहुत्वजन्यताया अनवच्छेदकत्वात् ; न च गगनमहत्त्वावधिकाऽपकर्षोऽणुपरिणामावृत्तिरेव त्र्यणुकादिपरिमाणवृत्तिर्जातिविशेषो बहुत्वजन्यताया अनतिप्रसतत्वादवच्छेदक इति वाच्यम्, तथाऽभ्युपगमे विनिगमनाविरहेण त्रुटि महत्त्वावधिकोत्कर्षस्यापि गगनपरिमाणपर्यन्तमहत्त्वत्वृत्तितयाऽभ्युपगन्तुं शक्यत्वेन तदभाववति त्रुटिमहत्त्वे गगनमहत्त्वावधिकापकर्षस्य सत्त्वं, गगनमहत्त्वावधिकापकर्षाभाववति गगनमहत्त्वादौ त्रुटिमहत्त्वावधिकोत्कर्षस्य सत्त्वमित्येवं परस्परात्यन्ताभावसामानाधिकरण्यं घटत्व - महत्त्वादौ च गगनमहत्त्वावधिकापकर्ष- त्रुटिमहत्त्वावधि - कोत्कर्षयोरुभयोरपि सत्त्वमित्येकाधिकरण्यं चेति गगनमहत्त्वावधिकापकर्षस्य त्रुटिमहत्त्वाधिकोत्कर्षेण समं साङ्कर्येण जातिरूपस्य तस्यासिद्ध्या बहुत्वजन्यतावच्छेद
१४९