________________
शास्त्रवार्तासमुच्चयः ।
[ तृतीयः
wwwwwww
तस्माद् देहात्मनोरन्योऽन्यव्याप्तिजैव देहस्पर्शादिसंवित्तिरिति सिद्धम्, इत्येवं स्वमनीषाप्रकाशं कृतवन्त उपाध्यायाः । इति एतस्मात् कारणात्, बन्धादि बन्ध-मोक्षादिकम्, सङ्गतम् प्रमाणोपपन्नं कर्मप्रकृत्यात्मनोः कथञ्चिदितरेतररूपापत्तिमन्तरेण देहस्पर्शादिप्रभव सुखदुःखसंवेदनादिकार्यानुपपत्तेः ॥ ४२ ॥ २३५॥ मूर्तया कर्मप्रकृत्या मूर्तस्यात्मनः संयोगस्ततोऽनुग्रहोपघातौ चेति निदर्शनबलतो व्यवस्थापयति
१४८
मूर्तयाऽप्यात्मनो योगो, घटेन नभसो यथा ।
उपघातादिभावश्व, ज्ञानस्येव सुरादिना ॥ ४३ ॥ २३६ ॥
मूर्तयाऽपीति - मूर्तयाऽपि कर्मप्रकृत्येत्यर्थः, आत्मनो योगः अमूर्तस्यात्मनः सम्बन्धः, सम्भवतीति शेषः, अत्र निदर्शनमाह - घटेन नभसो यथेति - यथा मूर्तेन घटेन सहामूर्तस्याकाशस्य संयोगो भवतीति, सर्वमूर्तगतस्याकाशस्य घटेन संयोगेऽपि न घटस्वभावताऽऽकाशस्य भवति तथा मूर्तेन कर्मणाऽऽत्मनः संयोगे - ऽपि न कर्मस्वभावताऽऽत्मन इति चेत् ? घटा-ssकाशयोर्यः संयोगः स किं घटस्वभावः, उताऽऽकाशस्वभावः ? आहोस्विद् घटाकाशोभयस्वभावः ? अथवाऽनुभयस्वभावः स्यात् ? प्रथमपक्षे - घटस्वभावस्य तस्याकाशनिरूपितत्वं न स्यात्, द्वितीयपक्षे - आकाशस्वभावस्य तस्य घटनिरूपितत्वं न भवेत्, तृतीये - तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन घटाभिन्नसंयोगाभिन्नस्याकाशस्य घटाभिन्नत्वमुररीकृतमेवेत्याकाशो घटस्वभावतां न यातीति वदतो व्याघातः स्यात्, चतुर्थेवस्तुमात्रस्य परस्परविरुद्ध स्वभावद्वयमध्यादेकस्वभावत्वाभावेऽपरस्वभावत्वमित्यस्य परस्परविरोधे हि न प्रकारान्तरास्थितिरिति वचनादावश्यकत्वेन तदभावे निःस्वभावत्वलक्षणानुपाख्यत्वापत्तिः, ततो नभसोऽपि घटसंयुक्तस्य घटस्वभावत्वं कथञ्चिदिति तद्दृष्टान्तेनात्मनोऽपि मूर्तकर्मप्रकृतिसंयुक्तस्य कथञ्चिन्मूर्तस्वभावत्वमिति । ननु घटसंयुक्तस्यापि नभसो न घटादनुग्रहोपघातौ यथा तथा कर्मप्रकृतिसंयुक्तस्यात्मनः कर्मप्रकृतितोऽनुग्रहोपघातौ नेत्यत आह- उपघातादिभाव - श्चेति कर्मप्रकृतेः सकाशादात्मन उपघातानुग्रहसद्भावोऽपीत्यर्थः, अत्र निदर्शनंज्ञानस्येव सुरादिनेति यथा ज्ञानस्य सुरया मादनशक्तिमत्योपघातो भवति ब्राह्मीघृतादिना चानुग्रहो भवति तथा कर्मप्रकृत्याऽऽत्मनोऽप्युपघाता ऽनुग्रहौ युक्तौ, अङ्गाङ्गिभावलक्षणसम्बन्धस्य तत्प्रयोजकस्य तत्र सत्त्वात्, तदभावादेव
--