________________
१४७
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः कावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः, बाह्याभ्यन्तरविभागाभावादिति चेत् ? सत्यम्-आत्मभिन्नत्वाऽभिन्नत्वाभ्यां तदभावेऽपि मानसत्वाऽमानसत्वाभ्यां तद्वयपदेशात् , तदाह"न च बाहिरओ भावो, अभंतरओ अ अस्थि समयम्मि ।
णोइंदियं पुण पडुच्च, होइ अब्भतरविसेसो ॥" [सम्मतिगाथा-५०] ["न च बाह्यको भावोऽभ्यन्तरकश्चास्ति समये।
नोइन्द्रियं पुनः प्रतीत्य भवत्यन्तरविशेषः" ॥ १ ॥ इति संस्कृतम्] सर्वस्यैव मूर्तऽमूर्तादिरूपतयाऽनेकान्तात्मकत्वात् , अयं बाह्योऽयं चाभ्यन्तर इति समये न वास्तवो विभागः, अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रिय-मनः प्रतीत्य, तस्यात्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् , शरीर-वाचोरिव, न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः, इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगात्, एवं च स्थाद्वादोक्तिरेव युक्ता, न तु परस्परनिरपेक्षनयोक्तिविना श्रोतृधीपरिकर्मणा निमित्तम् , वस्तुनोऽनेकान्तात्मकत्वात् , तदाह
"दव्वट्टियस्स आया, बंधइ कम्म फलं च वेएइ । बिइयस्स भावमेत्तं, ण कुणइ ण य कोइ वेएइ ॥ दव्वद्वियस्स जो चेव, कुणइ सो चेव वेयए नियमा । अण्णो करेइ अण्णो, परिभुंजइ पज्जवणयस्स ॥ जे वयणिजविअप्पा, संजुजंतेसु होंति एएसु । सा ससमयपण्णवणा, तित्थयरासायणा अण्णा ॥ पुरिसजायं तु पडुम्च, जाणओ पण्णविज अण्णयरं। परिकम्मणानिमित्तं दाएहा सो विसेसंपि" ॥
[सम्मतिगाथा-५१, ५२, ५३, ५४.] "द्रव्यास्तिकस्यात्मा बध्नाति कर्मफलं च वेदयति । द्वितीयस्य भावमात्रं न करोति न च कोऽपि वेदयति ॥ द्रव्यास्तिकस्य य एवं करोति स एव वेदयति नियमात् । अन्यः करोति अन्यः परिभुङ्क्ते पर्यवनयस्य ॥ ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्येतयोः । सा स्वसमयज्ञापना तीर्थकराशातनाऽन्या ॥ पुरुषजातं तु प्रतीत्य ज्ञापकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं दर्शयेत् सविशेषमपि" ॥ ४ ॥ इति संस्कृतम्]