________________
१४६
शास्त्रवार्तासमुच्चयः ।
सुखदुःखानुभवितृत्वमिति युज्यतेऽपि शरीरावयवात्मप्रदेशानामन्योऽन्यानुप्रवेशतो जात्यन्तरत्वादेव तयोरविभागोऽनुभूयते, जात्यन्तरमापन एव नरत्वादिकं वर्तते, नरत्वादेः शरीरात्मक भूतमात्रवृत्तित्वे केवलात्मवृत्तित्वे वाऽतिप्रसङ्गात्, जातीनां व्यासज्यवृत्तित्वस्य परसिद्धान्त विषयी भूतस्याभ्युपगमोऽपसिद्धान्तभयादेव कर्तुं न शक्यते यावदाश्रयप्रत्यक्षे सत्येव व्यासन्यवृत्तिप्रत्यक्षमिति नरत्वादेर्व्यासज्य वृत्तित्वे एकाश्रयत्वेन तदनुभवो न भवेत्, शरीराप्रत्यक्षेऽप्यन्धकारे नरत्वप्रतीतिरनुपपन्ना स्यात्, तदिदमुक्तं सम्मतिकृता
"अण्णोणाणुरायाणं, इमं च तं वत्ति विभयणमजुत्तं । जह दुद्ध - पाणियाणं, जावंता विसेसपज्जाय" ॥ १ ॥
इति [ सम्मति गाथा- ४७ ] [ " अन्योऽन्यानुगतयोरिदं वा तद्वेति विभजनमयुक्तम् । तथा दुग्धपानीययोर्यावन्तो विशेषपर्यायाः ॥” इति संस्कृतम् ] अन्योऽन्यानुगतयोरात्मकर्मणोर्दुग्ध-पानीययोरिव यावन्तो विशेषपर्यायास्तावत्सु इदं वा तद् वा इति विभजनमयुक्तं, प्रमाणाभावात् एवं तर्हि 'ज्ञानादयोऽपि देहे स्युः, रूपादयोऽप्यात्मनीति चेत्, इष्टापत्तिः, तदिदमुक्तं सम्मतिकृता
"रूपाइपज्जवा जे, देहे जीवदवियम्मि सुद्धम्मि |
कत्वम्,
[ तृतीयः
अण्णाणुया, पण्णवणिज्जा भवत्थम्मि” ॥ १ ॥
इति [ सम्मतिगाथा- ४८ ]
wwww
[ "रूपादिपर्यंवा ये देहे जीवद्रव्ये शुद्धे ।
तेऽन्योऽन्यानुगताः प्रज्ञापनीया भवस्थे” ॥ इति संस्कृतम् ] गौरोऽहं जानामीत्यादिधियस्तथैवोपपत्तेः, रूपादिज्ञानादीनामन्योऽन्यानुप्रवेशेन कथञ्चिदेकत्वाऽनेकत्व-मूर्तत्वा-मूर्तत्वादिसमावेशात् अत एव दण्डात्मादीनामेअनेकत्वं च स्थानाङ्गं व्यवस्थितम्, तदाह
" एवं एगे आया, एगे दण्डे य होइ किरियाए ।
करणविसेसेण यतिविह, जोगसिद्धी वि अविरुद्वा " ॥ [ सम्मतिगाथा- ४९ ]
[ " एवमेक आत्मैको दण्डश्च भवति क्रियया । करणविशेषेण च त्रिविधयोगसिद्ध्यप्यरविरुद्धा” ॥ इति संस्कृतम् ] नन्वेवमन्तर्हर्ष-विषादाद्यनेकविवर्तमेकं चैतन्यम्, बहिर्बालकुमारयौवनाद्यने