SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १४५ न याति नैवाश्रयति, आकाशादेरमूर्तस्य रूपादिमत्परिणतेः कदाप्यदर्शनात् , एवं मूर्त रूपादिमत्, अमूर्ततां रूपादिरहितपरिणतिरूपताम् , न नैव, आयाति प्राप्नोति, अत्र न यातीति पाठो हरिभद्रसूरिसम्मतः, परमाण्वादिषु मूर्तेषु अमूर्तपरिणतिभावासिद्धेः, यतः यस्मात् कारणादेवस्वरूपविपरिणामो न भवति, अतः अस्मात् , न्यायात् नियमात्, आत्मनः पुरुषस्य रूपादिरहितस्वरूपस्य, वन्धादि ज्ञानावरणादिपरिपाकलक्षणकर्मपरिणतिसम्बन्धादि, तया कर्मलक्षणप्रकृत्या, असङ्गतं अघटमानम् ॥ ४१ ॥ २३४ ॥ अत्रोत्तरमुपदर्शयतिदेहस्पर्शादिसंवित्त्या, न यात्यवेत्ययुक्तिमत् । अन्योन्यव्याप्तिजा चेयमिति बन्धादि सङ्गतम् ॥४२॥२३५॥ देहस्पर्शादिसंवित्त्येति-देहे स्पर्श:-कण्टकादिसंयोगः, अनेन उपघातहेतूपनिपातान्युपलक्षितानि, आदिपदेनानुग्रहहेतूपनिपातपरिग्रहः, तेषां संवित्त्यातजनितसुखदुःखाद्यनुभवेनेत्यर्थः, अमूर्त मूर्ततां यातीति प्राक्तनानुषङ्गः, यतश्चामूर्तमपि मूर्ततां याति ततः, न यात्येव "अमूर्त मूर्तताम्" इत्यनुषङ्गप्राप्तस्यात्रापि सम्बन्धः, तथा च देहस्य सुखदुःखादिमत्त्वं तदनुभवश्च नास्ति, भवति च तथाऽनुभवोऽतोऽन्योऽन्यानुप्रवेशलक्षणसम्बन्धात् कथञ्चिद् देहादिरूप आत्मा देहस्पर्शादिना सुखदुःखादिमान् भवति तदनुभववांश्च भवति, अनयैव चामूर्तस्यात्मनः कथञ्चिन्मूर्तत्वप्राप्तिसङ्गतत्वसाधिकयाऽमूर्त मूर्ततां न यात्येव, इति एतत् , अयुक्तिमत् अनुभवबाधितम् , यथा च घटादिसंवित्तिरात्मनो घटादिमयत्वाभावेऽप्युपपद्यते तथा देहस्पर्शादिसंवित्तिदेहादिमयत्वाभावेऽप्युपपत्स्यते, नातोऽमूर्तस्यात्मनो रूपादिमत्परिणत्याश्रयणेन कृत्यमित्यत आह-अन्योऽन्यव्याप्तिजेति-शरीरात्मनोरन्योऽन्यानुप्रवेशजन्यजात्यन्तरतापत्तिप्रभवेत्यर्थः, इयं च देहस्पर्शादिसंवित्तिश्च, यथा च गुड-शुण्ठीद्रव्ययोरन्योऽन्यविलक्षणसंसर्गलक्षणान्योऽन्यव्याप्तिप्रयुक्तजात्यन्तरतापत्तिप्रभवा, कफ-पित्तविकारापहारकत्वं प्रत्येकमेकैकस्य कफ-पित्तविकारकारकत्वेऽपि तथा केवलस्य शरीरस्य, केवलस्य चात्मनः सुखदुःखानुभूत्यभावेऽपिअन्योऽन्यानुप्रवेशप्रभवजात्यन्तरतामापन्नयोः शरीरात्मनोमूर्ताऽमूर्तस्वभावसंवलितयोः सुख-दुःखानुभूतियुज्यत इति यत एव क्षीर-नीरयोरिव प्रत्यवयवं शरीरस्यात्मनः प्रदेशानामनुस्यूतत्वेन सुख-दुःखानुभवस्यानुग्रहहेतूपनिपातोपघातहेतूपनिपाततो दर्शनात् , अन्योऽन्यानुप्रवेशतो जात्यन्तरतामापन्नस्यैव १० शास्त्र.स.द्वि०
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy