________________
शास्त्रवार्तासमुच्चयः ।
[ तृतीयः
सन्निकर्षस्य वा व्यञ्जकस्याभावान्न प्रागुलब्धिरिति चेत् ? तथा सति प्रागसतो विजातीयसंयोगस्येन्द्रियसन्निकर्षस्य वोत्तरकालं भावादसत्कार्यवाद आपतत्येव प्राक् सन्नेव व्यञ्जक आविर्भूत इति चेत् ? न - आविर्भावस्य पूर्वं सत्त्वे आविर्भूतस्य संयोगस्य संनिकर्षस्य वा व्यञ्जकस्य सद्भावादुपलब्धिप्रसङ्गस्य तादवस्थ्यात्, आविर्भावस्य प्रागसत्त्वे च तस्यैव प्रागसतः उत्तरकाले भावादसत्कार्यवादोऽनिवार्य इति; स्थूलरूपावच्छिन्नस्य प्रागसत्त्वान्नोपलब्धिः, धर्म-धर्मिणोश्च सौक्ष्म्य स्थौल्ययोश्चैकत्वान्नावस्थेति चेत् ? तर्हि सूक्ष्मरूपावच्छिन्नस्या हेतुकत्वेऽतिप्रसङ्गः, प्रकृतिमात्रहेतुकत्वे च स्थूलतादशायामपि तदापत्तिः, तत्सम्बन्धाच्चात्मनो मोक्षो न कदापि भवेत्, तस्मादनन्तधर्मात्मकस्यैव वस्तुनः कथञ्चित् सत्त्वमसत्त्वं चोपपत्तिमत्, तथा च बुद्धि-सुख-दुःखादीनामहन्त्वसामानाधिकरण्येनानुव्यवसीयमानत्वात् तद्धर्मतया तत्रैव समन्वयः कर्मप्रकृतिस्तु तत्र निमित्तमात्रमिति प्रतिपत्तव्यमित्येवमुपाध्याया व्यावर्णयाञ्चक्रुः ॥ ३९ ॥ २३२ ॥
१४४
एवमनेकान्तवाद्यभ्युपगतायां कर्मप्रकृतौ न साङ्ख्यपक्षोक्त दोष इत्याहतस्याश्चानेकरूपत्वात्, परिणामित्वयोगतः । आत्मनो बन्धनत्वाच्च, नोक्तदोषसमुद्भवः ॥ ४० ॥ २३३ ॥ तस्याश्चेति कर्मप्रकृतेः पुनरित्यर्थः, अनेकरूपत्वात् एकानेकस्वरूपत्वात्, चित्रत्वादिति यावत्, परिणामित्वयोगतः ज्ञानावरणादिविपाक परिणामशालित्वात्, ततश्चानेककार्यजनकत्वसम्भवात्, सर्वथैकस्वरूपत्व एव विचित्र कार्यजनक - त्वानुपपत्तिः, आत्मनः पुरुषस्य, बन्धनत्वाच्च च - पुनः, अन्योऽन्यानुप्रवेशेन स्वरूपतिरोधायकत्वात् कर्मणो बन्धनरूपेण आत्मनो बध्यस्वरूपेण परिणमनतः कर्मण आत्मस्वरूपतिरोधायकत्वोपपत्तेः, नोक्तदोषसमुद्भवः साङ्ख्यपक्षोपदशिता निर्मोक्षापत्त्यादिदोषस्य न समुद्भवोऽवकाशः, मोक्षदशायां कर्मणः पूर्वबन्धनपरिणतिभिन्नपरिणतिरूपत्वात्, आत्मनश्च पूर्वबध्यपरिणतिभिन्नपरिणतिरूपत्वादित्येवं भेदात् ॥ ४० ॥ २३३ ॥
आत्मनो बन्धादि न सङ्गतमित्यस्य व्यवस्थापनपरं परमतमुपदर्शयतिनामूर्त मूर्ततां याति मूर्त नायात्यमूर्तताम् ।
यतो बन्धाद् यतो न्यायादात्मनोऽसङ्गतं तथा ॥४१॥२३४॥ नामूर्तमिति-अमूर्त रूपादिमत्वरहितम्, मूर्ततां रूपादिमत्परिणतिं,
.