SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १४३ विरुद्धधर्माध्यासलक्षणः, घटपटादिवत् प्रत्यक्षसिद्धः, न च सामानाधिकरण्यादभेदः तद्धि समानशब्दवाच्यत्वम् , एकज्ञानगोचरत्वम् , एकाधिकरणक आधाराधेयभावः, विशेष्यत्वं सम्बन्धमानं वा, भेद एव भेदेऽपि चोपपद्यमानं नाभेदं स्पृशतीति सर्वमवदातम्" इति ॥ ३८ ॥ २३१ ॥ प्रकृतिः कर्म सुखदुःखादिकारणत्वात् , तेन बद्ध आत्मा सुखदुःखादिकं भुङ्क्ते, तद्वियुतस्तु मुक्तो भवतीत्येवं यावदुपपन्नं साङ्ख्यवादे तावतस्तत्त्ववार्तामाह अत्रापि पुरुषस्यान्ये, मुक्तिमिच्छन्ति वादिनः । प्रकृतिं चापि सन्न्यायात् , कर्मप्रकृतिमेव हि ॥ ३९ ॥२३२॥ अत्राऽपीति–साङ्ख्यवादेऽपीत्यर्थः, अन्ये वादिनः जैनाः, पुरुषस्य आत्मनः, मुक्तिं प्रकृतिवियोगस्वरूपां मुक्तिं, इच्छन्ति स्वीकुर्वन्ति, प्रकृति चापि न केवलं पुरुषस्य मुक्तिमेव किन्तु प्रकृतिमपि, सन्यायात् सत्तर्कात् , हि निश्चितम् , कर्मप्रकृतिमेव कर्मस्वरूपां प्रकृतिमेव, इच्छन्तीति सम्बन्धः, बुद्धयहङ्कारादीनां सर्वेषां कर्मण एव निमित्तकारणत्वात् , उक्तप्रकारेण प्रकृतिपुरुषादिवादः साङ्ख्यस्य कथञ्चिद्वाद एव घटते, सर्वथा सत्कार्यवादे तु न किञ्चिदुपपद्यते, यच्च सदेव कार्य नासदित्यत्र असदकरणादिकं हेतुपञ्चकं, तदपि विपरीतम् , यतः सतः सिद्धत्वेन कारणासम्भवात् , असदकरणादित्यस्य विपरीतं सदकरणादित्येव भद्रम् , साध्यार्थितयैवोपादानग्रहणं न सिद्धार्थतयेत्युपादानग्रहणात् सत्कार्यमित्यस्य विपरीतम् -उपादानग्रहणादसत्कार्यमित्येव युक्तम् ; नियतादेव क्षीरादेः सामग्र्या दध्यादिदर्शनात् सर्वसम्भवाभावादप्यसत्कार्यमेव युज्यते, सर्वथा सच्च सिद्धत्वात कर्तुमशक्यत्वेन शक्तिव्यापाराविषयत्वादसत एव कर्तुं शक्यत्वे शक्तिव्यापारविषयत्वमिति शक्तस्य शक्यकरणादित्यप्यसत एव कार्यत्वं व्यवस्थापयति, कार्य-कारणयोः सर्वथा तादात्म्ये नहि स्वमेव स्वस्मात् पूर्वमपरं च सम्भवतीति पौर्वापर्याभावात तन्नियतकार्यकारणभावोऽपि न सम्भवतीति कार्य-कारणयोः कथञ्चिद् भेद एव कार्य-कारणभाव इति कारणभावादप्यसत्कार्यमेव; यदि कारणव्यापारात् प्रागपि पटस्तन्तुषु सन्नेव तदा किमित्युपलब्धिकारणेषु सत्सु सत्यामपि जिज्ञासायां नोपलभ्यते?; अनाविर्भावादिति चेत् ? कोऽयमनाविर्भावः? उपलब्धेरभावश्चेत् ? उपलब्ध्यभावादुपलब्ध्यभावं इति कथं स्वस्थो ब्रूयात् ; अथोपलब्धियोग्यस्यार्थक्रियाकारिरूपस्याभावोऽनाविर्भाव इति चेत् ? तथा सति सिद्धोऽसत्कार्यवादः, अर्थक्रियाकारिरूपस्य प्रागसत एव पश्चाद्भावात् ; विजातीयसंयोगस्य तदवच्छेदेन
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy