________________
१४२ शास्त्रवार्तासमुच्चयः।
[तृतीयः साङ्ख्याचार्यैः, पुरुषस्य आत्मनः, मुक्तिः बन्धनिवृत्तिलक्षणा, उदिता कथिता, न च नैव, इयं मुक्तिः, इत्थम् , उपदर्शितप्रकारेण विचार्यमाणा सती, घटते युज्यते, इति एतस्मात् कारणात्, सर्व साङ्ख्योक्तमखिलम्, अयुक्तिमत् युक्तिविकलम् ; उदयनाचार्यैस्तु साङ्ख्यप्रक्रियेत्थमपाकृता-तथाहि
"कर्तृधर्मा नियन्तारश्चेतिता च स एव नः ।
अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः” ॥ १ ॥ कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम् , चेतनोऽपि कतैव, कृति-चैतन्ययोः सामानाधिकरण्येनानुभवात् , नायं भ्रमो बाधकाभावात् ; परिणामित्वाद् घटवदिति बाधकमिति चेत् ? न कर्तृत्वेऽपि समानत्वात्, तथा च कृतिरपि स्वाभाविकी महतो न स्यात् , दृष्टत्वादयमदोष इति चेत् ? तुल्यम् । अचेतनकार्यत्वं बाधकं, कार्य-कारणयोस्तादात्म्यादिति चेत् ?, न-असिद्धेः, नहि कर्तुः कार्यत्वे प्रमाणमस्ति, प्रत्युत "वीतरागजन्मादर्शनात्" इति न्यायादनादितैव सिद्ध्यति, यद्यच्च कार्य रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् , स्थूलतामपहाय सूक्ष्मतया ते तत्र सन्तीति चेत् ? चैतन्यमपि तथा भविष्यति, तथाप्यसिद्धो हेतुः, तथा सति घटादीनामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेत् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः, सौम्यं च समानमिति, तस्मात् यजातीयात् कारणाद् यजातीयं कार्य दृश्यते तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्य, व्यभिचारादिति किमनेनाप्रस्तुतेन ?; यदि च बुद्धिनित्या, [तदा] अनिर्मोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् ; अथ विलीयते ततो नावादेविलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता?, प्रकृतेः साधारण्यात् , तथा चासंसारः, पूर्वपूर्ववासनानुवृत्तेः, साधारण्येऽप्यसाधारणीति चेत्? बुद्धि निवृत्तावपि तद्धर्मवासनानुवृत्तिरित्यपदर्शनम् , सौक्ष्म्यान्न दोष इति चेत् ? मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः निरधिकारत्वान्नैवमिति चेत् ? तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्थान्तरकल्पनया, सैव हि तत्तद्व्यवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शरीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः, अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगाच्चाधिकारः, ततः संसारः धर्म-धर्मिणोरत्यन्तभेदे च कौटस्थ्याविरोधः, भेदश्च