SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः मोक्ष इति । यत् यस्माद्धेतोः, साङ्ख्यमते प्रकृत्ययोगः प्रकृतिसम्बन्धाभावः, मोक्षः सम्मतः “प्रकृतिवियोगो मोक्षः” इति वचनात्, अतः अस्मात् कारणात्, अस्याः प्रकृतेः, स मोक्षः, कथं भवेत् ? कथमपि न स्यात्, निरुक्तलक्षणमोक्षः प्रकृतेर्न सम्भवतीत्यत्र हेतुमुपदर्शयति-स्वरूप विगमापत्तेरिति - प्रकृतिस्वरूपनिवृत्तिप्रसङ्गात्, प्रकृतेर्नित्यायाः सर्वदा भावे स्वतादात्म्यलक्षणस्य स्वसम्बन्धस्यापि भावेन तदभावलक्षणवियोगो न स्यादेवेति तदुपपत्तये यद्रूपेण प्रकृतिः पूर्वमासीत् तद्रूपं विहाय रूपान्तरेण सा तदानीं जातेति यदि स्वीक्रियेत एवं सति स्वरूपविगमापत्तिरवश्यम्भाविनीति, पुरुषस्य मोक्षाभ्युपगमे तु तत्र प्रकृतिव्यापारनिवृत्तिद्वारा प्रकृतिसम्बन्धनिवृत्तिर्युज्येतापि, स्वस्मिन् स्वनिवृत्तिस्तु घटादावपि न दृश्यते, स्वतादात्म्यमेव स्वस्मिन् सम्बन्धः, तदभावः स्वभावे सत्येव स्यादिति न तस्य तत्र सम्भवः, स्वस्मिन् स्वस्य सम्बन्धान्तरं तु प्रसक्तमेवेति न तस्य निषेधोsप्रसक्तस्याप्रतिषेधात्, तथा एवं, तन्त्रविरोधतः स्वदर्शनविरोधतः प्रकृतेर्मोक्षो न संभवतीति ॥ ३६ ॥ २२९ ॥ १४१ तन्त्रविरोधमेवोपदर्शयन्नाह पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । जटी मुण्डी शिखी वाsपि, मुच्यते नात्र संशयः ||३७||२३०|| पञ्चविंशतितत्त्वज्ञ इति - साङ्ख्यदर्शनाभिमतप्रकृतिमहदादिपञ्चविंशतितत्त्वरहस्यवेत्तेत्यर्थः, यत्र तत्र यस्मिन् कस्मिन्नपि, आश्रमे ब्रह्मचर्य - गृहस्थ- वानप्रस्थसंन्यासाश्रमे, रतः तत्त्वज्ञानैकाभ्यसनशीलः, जटी जटावान्, ब्रह्मचारीति यावत्, अर्नेन ब्रह्मचर्याश्रमस्थितो दर्शितः, मुण्डी मुण्डितशिराः, अनेन संन्यासाश्रमस्थितो दर्शितः, शिखी वाऽपि अनेन वानप्रस्थ-‍ - गार्हस्थ्याश्रमिणोरुपदर्शनम्, मुच्यते प्रकृति-विकारोपधानविलयेन केवलचैतन्यस्वरूपावस्थितो भवति, जटी - त्यादिना बाह्यलिङ्गं न मुक्तौ कारणमिति भावितम्, नात्र संशयः यत्र तत्राश्रमरतोऽपि पञ्चविंशतितत्त्वज्ञो मुक्तो भवत्येव वचनप्रामाण्यात् ॥ ३७ ॥ २३० ॥ एतावता कथं स्वसिद्धान्तविरोधः साङ्ख्यस्येत्यपेक्षायां निगमयतिपुरुषस्योदिता मुक्तिरिति तत्रे चिरन्तनैः । इत्थं न घटते चेयमिति सर्वमयुक्तिमत् ॥ ३८ ॥ २३१ ॥ पुरुषस्येति, इति उक्तस्वरूपे, तन्त्रे साङ्ख्यदर्शने, चिरन्तनैः प्राचीनैः,
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy