SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । " तस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः " ॥ १ ॥ [ साङ्ख्यका० ६२ ] इति, wwwwww इति चेत् एवं साङ्ख्योऽभिमन्यते यदि ॥ ३४ ॥ २२७ ॥ अनन्तराभिहितपराभिप्रायशङ्कायामुत्तरमाह १४० [ तृतीयः एकान्तेनैकरूपाया, नित्यायाश्च न सर्वथा । " तस्याः क्रियान्तराभावाद्, बन्ध-मोक्षौ सुयुक्तितः ॥३५॥२२८॥ एकान्तेनेति - सर्वथेत्यर्थः, एकरूपायाः एकस्वभावायाः, च पुनः सर्वथा सर्वैः प्रकारैः, नित्यायाः नित्यस्वरूपायाः, स्वरूपं च तस्याः प्रवृत्तिरूपैकक्रियावत्वमिति सर्वप्रकारैर्नित्यप्रवृत्तिरूपैकक्रियावत्या इति यावत् तस्याः प्रकृतेः, क्रियान्तराभावात् प्रवृत्तेरन्या क्रिया क्रियान्तरनिवृत्तिः, तस्या अभावात्, सुयुक्तितः सभ्यायात्, बन्ध-मोक्षौ न सम्भवतः, प्रकृति-पुरुषान्यताख्यातित एव मोक्षः साङ्ख्यस्याभिमतः, प्रकृतिपुरुषान्यताख्यातिश्च व्यापारः पुरुषस्यैव, चेतनत्वात्, इति तस्यैव मोक्षः सन्न्यायानुगतः, न तु प्रवृत्त्येकरूपायाः प्रकृतेः, अचेतनायाश्च तस्याः पुरुषार्थं व्यापारासम्भवात् किञ्च सर्वपुरुषान् प्रति साधारणस्वरूपाया एकस्याः प्रकृतेर्मुक्तौ सर्वेषामपि पुरुषाणामविशेषेण स्वरूपावस्थानादेकमुक्तौ सर्वपुरुषमुक्तितः संसारोच्छेदः प्रसज्येत, यथा च प्रकृतिः सर्वगता तथा प्रत्येकं सर्वेऽप्यात्मानः साङ्ख्यमते सर्वगता इति यदवच्छेदेनैकं पुरुषमाश्रित्य सा मुक्ता तदवच्छेदेनान्येषामपि पुरुषाणां सद्भावात् तान् पुरुषानाश्रित्यापि सा मुक्तै, वेति “एकावच्छेदेन तस्या मुक्तिर्नान्यावच्छेदेन” इत्यस्यापि वक्तुमशक्यत्वात् - बुद्धीनां महत्तत्त्वाभिधानानां प्रति पुरुषं भिन्नानां स्वीकारात् तद्बुद्ध्यवच्छेदेन मुक्तत्वं नान्यावच्छेदेनेत्यपि क्षीणाया बुद्धेरनवच्छेदकत्वादनुद्बोध्यम्, किञ्चैवमुपगमे यहुद्धियोगेन यस्य पुरुषस्य संसारस्तद्बुद्ध्युपगमे तस्य मोक्ष इत्यस्यागतत्वात् पुरुषस्यैव मोक्षप्रसङ्गाच्च ॥ ३५ ॥ २२८ ॥ परमते दोषान्तरमपि दर्शयति मोक्षः प्रकृत्ययोगो, यदतोऽस्याः स कथं भवेत् ? । स्वरूपविगमापत्तेस्तथा तत्रविरोधतः ।। ३६ ।। २२९ ॥ "
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy