________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलित.
भवत्वात्मनः सर्वथा शरीरात् पृथक्त्व उक्तदिशा बन्धाभावः, ततः को दोष ? इत्यत आह
बन्धादृते न संसारो, मुक्तिर्वाऽस्योपपद्यते । यमादि तदभावे च, सर्वमेव ह्यपार्थकम् ॥ ३३ ॥ २२६ ॥ बन्धादृते इति-बन्धं विनेत्यर्थः, न संसारः देव-नरकादिचतुर्गतिलक्षणसंसारो न, नञः उपपद्यते इत्यनेन सम्बन्धः, वा अथवा, अस्य आत्मनः, मुक्तिः मोक्षः, नोपपद्यते इति सम्बन्धः, यतो बद्धानां कर्मणां क्षय एव मुक्तिरिति, तदभावे मुक्तिरूपफलस्याभावे, च पुनः, तदर्थ सर्वमेव यमादि निखिलमेव यम-नियमाद्यनुष्ठानम् , हि निश्चितम्, अपार्थकं गतप्रयोजनकम् , इष्टप्रयोजनविपरीतकष्टैकमात्रप्रयोजनकमिति यावत्, न खलु स्वाभीष्टप्रयोजनं किमप्यनभिलषन्नेव प्रेक्षावान् स्वात्मानं दुष्करक्लेशैरवसादयतीति ॥३३॥ २२६॥ साङ्ख्याभिप्रायं प्रतिक्षेप्तुमुपदर्शयतिआत्मा न बध्यते नापि, मुच्यतेऽसौ कदाचन । बध्यते मुच्यते चापि, प्रकृतिः स्वात्मनेति चेत् ॥३४॥२२७॥
आत्मेति-चैतन्यस्वरूपपुरुष इत्यर्थः, अस्यासाविति विशेषणं बन्धमुक्त्यभावेऽपि प्रत्यक्षसिद्धत्वान्नायमपलपितुं शक्य इत्यस्याधिगतये, न बध्यते न प्राकृतिक वैकृतिकादिबन्धपरिणतो भवति, सवासनक्लेशकर्माशयानां बन्धत्वेन समाम्नातां पुरुषेऽपरिणामिन्यसम्भवात् , नापि कदाचन मुच्यते मुचिधातोबन्धनविश्लेषार्थत्वेन बन्धनविश्लेषरूपा मुक्तिर्बन्धनपूर्विका सर्वदाऽबद्ध आत्मनि न सम्भवतीत्यतोऽसावात्मा कस्मिन्नपि काले मुक्तिभाग न भवतीति, यद्यात्मनो न बन्ध मोक्षौ तर्हि कस्य तावित्यपेक्षायामाह-बध्यत इति-अस्य प्रकृतिरित्यनेन सम्बन्धः, तथा च स्वात्मना स्वस्वरूपाभिन्नेन स्वपरिणामलक्षणेन बन्धेन प्रकृतिबंध्यते बन्धभागिनी भवति, च पुनः, मुच्यतेऽपि स्वात्मनेत्यस्यात्रापि सम्बन्धात् स्वपरिणामलक्षणेन बन्धनेन प्रकृतिरेव बद्धा भवति, बन्धविश्लेषस्य प्रतियोगिविधया बन्धजन्यस्य यत्रैव बन्धस्तत्रैव तद्विश्लेष इति नियमेन बन्धसमानाधिकरणस्य च प्रकृतावेव सम्भवात् , यथा च जय-पराजयौ भृत्यगतौ स्वामिन्युपचर्येते तथा प्रकृतिगतावपि बन्ध-मोक्षौ भेदाग्रहात् पुरुषे उपचर्येते, नातोऽयमात्मा बद्धो वामदेवादिश्च मुक्त इति व्यवहारस्योपपत्तिः, तदुक्तमीश्वरकृष्णेन
www