________________
१३८ शास्त्रवार्तासमुच्चयः ।
[तृतीयः रूपत्वाभावात्, ब्राह्मणं नतोऽप्यशक्यब्राह्मणात्मनाशकर्तृत्वाभावेन ब्रह्महन्तृत्वासम्भवात् ; ब्राह्मणशरीरावच्छिन्नज्ञानजनकमनःसंयोगविशेषनाशानुकूलो व्यापार एव ब्रह्महत्येति तादृशव्यापारकर्तुर्ब्रह्महन्तृत्वमुपपद्यत इति चेत् ? न-मनसोऽतिचञ्चलत्वेनानवरतमनःक्रियात एव जायमाननाशप्रतियोगिनस्तादृशमनस्संयोगस्य स्वत एव नश्वरत्वात् , परम्परया तथाघातसम्भवेऽपि साक्षाद्घातानुपपत्तेश्च; ब्राह्मणशरीरावच्छिन्नदुःखविशेषानुकूलव्यापार एव ब्रह्महत्येति चेत् ? शरीराच्छरीरिणः सर्वथा भेदे शरीरच्छेदादिनाऽऽत्मनो दुःखमपि कथं भवेत् ?; शरीरच्छेदस्य स्वप्रतियोगिशरीरावच्छिन्नलक्षणपरम्परासम्बन्धेनात्मसम्बद्धत्वात् तादृशदुःखविशेषानुकूलव्यापारत्वमिति चेत् ? शरीरावयवच्छेदादात्मावयवच्छेद एव शरीरात पृथग्भूतावयवस्य कम्पोपलब्धेः साक्षादेव कथं न च्छेदसम्बन्ध आत्मनः, आत्मप्रदेशस्य च्छिन्नस्य छिन्नशरीरावयवगतत्वाभावे छिन्नशरीरावयवकम्प एव न भवेत् प्राणक्रियाया अपि तन्मात्रोपग्रहं विनाऽभावात् ; नन्वेवं शरीरच्छिन्नावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः स्यादिति चेत् ? न-यस्माच्छरीराच्छिन्नावयवः पृथग्भूतस्तस्मिन्नवयवेऽनुप्रविष्टानामात्मप्रदेशानां पश्चाच्छरीर एवानुप्रवेशात् कियत्कालं छिन्ने शरीरावयवे हस्तादौ कम्पादितल्लिङ्गदर्शनेन च्छिन्नात्मप्रदेशानां सद्भावसिद्धावपि पश्चात् तत्र तल्लिङ्गकम्पाद्यदर्शनेन तच्छरीरानुप्रवेशस्य कल्पनात् ; न चैकत्वे आत्मनो विभागाभावाच्छेदो न सम्भवतीति वाच्यं, शरीरद्वारेणात्मनोऽपि सविभागत्वात् , सविभागत्वाभावे आत्मनः सावयवशरीरव्यापित्वं न स्यात् , तथा च शरीरच्छेदनान्तरीयकच्छेद आत्मनः किं न स्यात् ?; न चात्मनश्छिन्नाछिन्नप्रदेशयोः पश्चात् कथं सङ्घटनमिति चेत् ? न-एकान्तेन छिन्नत्वाभावात् , पद्मनालतन्तुवदच्छेदेऽपि छेदाभ्युपगमात्, सङ्घटनमपि तथाभूतादृष्टवशादविरुद्धमेव, हन्त ! एवं शरीरदाहेऽप्यात्मात्मदाहः स्यादिति चेत् ? न-क्षीर-नीरयोरिवाभिन्नत्वेऽपि भिन्नलक्षणत्वेन शरीरदाहेऽप्यात्मदाहाभावात् , तस्माद् देहादात्मन एकान्तपृथक्त्वे हिंसाद्यभावः, तदभावे हिंसाद्यभावे, अनिमित्तत्वात् , निमित्तसंनिधानाभावात् , कथं शुभाशुभो बन्धः शुभाशुभयोभिन्नत्वेन द्विवचनस्यैव प्राप्तौ यदेकवचनं तदुपपत्तये इत्थमत्र विमर्शः-अत्र शुभश्वाशुभश्चेति विग्रहे द्विवचनापत्तिरतो न द्वन्द्वः, शुभश्चासावशुभश्चेति विग्रहे शुभत्वाशुभत्वरूपविरुद्धधर्माध्यासात् तयोरभेदेन विशेषणविशेष्यभावो न सम्भवतीति न कर्मधारयः किन्तु शुभेन सहितोऽशुभ इति व्याख्येयम् ॥ ३२ ॥ २२५॥"