________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः प्रतिबिम्बोदयस्वभावः, पूर्वस्वभावत्वात् संसार्यवस्थैकस्वभावत्वात् , कारणात् , मुक्तानां मुक्तिमतामात्मनाम्, असङ्गतः असमञ्जसः, निषेधद्वयबलात् सङ्गत एव, पूर्वसंसार्यवस्थस्यैव जीवस्योत्तरकालं मुक्तत्वमिति मुक्त्यवस्थायां प्रतिबिम्बोदयस्वभावाभावे तद्वत आत्मनोऽप्यभाव इति नित्यत्वं व्याहन्येत, तथा च नित्यत्वपरिरक्षणार्थं प्रतिबिम्बोदयस्वभावस्य सर्वदा सत्त्वमिति सर्वदेव भोगस्यापि प्रसक्त्या न कदाचन भोग इति दोषस्तदवस्थ एव, सार्वदिक्कस्य कादाचित्कत्वाभावात् , स्वभावान्तरभावे च नहि पूर्वस्वभावपरित्यागमन्तरेणोत्तरस्वभावग्रहणमिति प्रतिबिम्बोदयस्वभावलक्षणामुक्तस्वभावपरित्यागेन मुक्तस्वभावोत्पादे मुक्तानामिष्यमाणे च, परिणामोऽनिवारितः स्वभावान्यथात्वलक्षणकः परिणामो निवारयितुमशक्य एव, यथा घटनाशे घटावच्छिन्नस्याकाशस्य घटावच्छिन्नत्वेऽपि स्वभावापरित्यागः, तथा सवासनबुद्धिनाशे विषयावच्छिन्नस्य चैतन्यस्य विषयानवच्छिन्नत्वेऽपि स्वभावापरित्याग एवेति चेत् ? न-दृष्टान्तासम्प्रतिपत्तेः, घटनाशे आकाशे घटाकाश इति व्यवहाराभावेन घटावच्छिन्नत्वस्वभावपरित्यागस्यावश्यकत्वात् , तदपरित्यागे तन्निबन्धनस्य घटाकाशव्यवहारस्याऽऽपत्तेः, अपि चासङ्गस्य पुरुषस्य प्रतिनियतस्य प्रतिनियततया बुद्ध्या समं कस्यचित् सम्बन्धस्याभावे सा बुद्धिस्तमेवात्मानं विषयेणावच्छिनत्तीत्यत्र किमपि नियामकं नास्तीति यैव बुद्धिर्न नश्यति सैवैका सर्वानपि पुरुषान् विषयेणावच्छिन्द्यादित्येकबुद्धिसद्भावेऽपि न कस्यचिन्मोक्षः स्यात् , तस्मात् बुद्धिरेव रागादिपरिणतात्मस्थानेऽभिषिक्ताऽस्तु, तस्या लयस्तु रागादिलय एव इति तत्रैव मुक्तिरिति युक्तम् ॥३१॥२२४॥
आत्मनो देहादेकान्ततः पृथक्त्वे बन्धकारणानां हिंसादीनामघटनाच्छुभाशुभबन्धभावापत्तिदोषोऽपि साङ्ख्यस्येत्याह -
देहात् पृथक्त्व एवास्य, न च हिंसादयः क्वचित् । तदभावेऽनिमित्तत्वात् , कथं बन्धः शुभाशुभः॥३२॥२२५॥ देहात् पृथक्त्व एवेति-देहादेकान्ततः पृथक्त्व इत्यर्थः, अस्य आत्मनः, स्वीक्रियमाणे इति शेषः, न च हिंसादयः क्वचित् कस्मिन्नप्यात्मनि हिंसादयो न स्युः; न च ब्राह्मणशरीरहत्यैव ब्रह्महत्येति वाच्यम्, मृतब्राह्मणशरीरदाहेऽपि ब्रह्महत्यायाः प्रसङ्गात् ; न च मरणोद्देशाभावान्न ब्राह्मणशरीरदाहे ब्रह्महत्यापत्तिरिति वाच्यम् , मरणोद्देशेनापि कृताया ब्राह्मणशरीरहत्याया ब्राह्मणात्मनो नाशस्यासम्भवेन तदननुकूलाया मृतब्राह्मणशरीरदाहकल्पाया ब्राह्मणहत्या