________________
१३६ शास्त्रवार्तासमुच्चयः ।
[तृतीयः पद्मरागादिमूर्तसन्निधिजन्य एव परिणामविशेषः, साक्षात्सम्बन्धेन तत्प्रतीतौ परम्परासम्बन्धस्यातिप्रसक्तत्वात् ,स्फटिकादिनिष्ठतया लौहित्याश्रयसंसर्गस्य साक्षात्सम्बन्धेन लौहित्यभ्रमजनकत्वे तत्र विशेषदर्शनादेरुत्तेजकत्वे परम्परासम्बन्धेन लौहित्यप्रमानियामकत्वादिकल्पने चातिगौरवात् , लोहित्यमात्रजनकत्वकल्पनाया एव न्याय्यत्वात् ; अभिभूतानभिभूतरूपयोः समावेशस्यानुभवसिद्धत्वेनाविरुद्धत्वात् , नियतारम्भनिरासाञ्चेति अन्यत्र विस्तरः । ___ तस्मादात्मनो बुद्धौ बिम्बतया उपाधितया वाऽमूर्तत्वान्न स्वोपरागजनकत्वम् , तत्त्वे वा कथमात्मनोऽकारणत्वं , कथं वा तदुपरागस्यानिर्वचनीयस्यासतो वा स्वीकारे नोपनिषदबौद्धमतप्रवेशः; एतेन "नामूर्तस्य प्रतिबिम्बाभावः शक्यो, वक्तुम् , अमूर्तानां रूपपरिणामादीनां प्रतिबिम्बदर्शनात् , द्रव्यस्याप्यमूर्तस्य साभ्रनक्षत्रस्याकाशादेर्जानुमाने जले दूरविशालस्वरूपेण प्रतिबिम्बदर्शनाच्च" इत्युक्तावपि न निस्तारः । अथ न पुरुषजन्यः पुरुषोपरागः, किन्तु पुरुषभेदाग्रहादसत एव तस्योत्पत्तिः, सदुपरागेण भानाच्च नासत्ख्यातिरिति चेत् ? गतं तर्हि सत्कार्यवादेन, बुद्धौ सन्नेव पुरुषोपरागः कदाचिदाविर्भवतीति चेत् ? तर्हि बुद्वयुत्पत्तेः पूर्वं पुरुषस्थानुपरक्ततया मोक्षः स्यात् , प्रकृतेः साधारणत्वेनानुपरञ्जकत्वात्, पूर्वबुद्धिवासनानुवृत्तेः साधारण्येऽप्यसाधारणी प्रकृतिरिति चेत् ? न-'बुद्धिनिवृत्तावपि तद्धर्मवासनानुवृत्तिः' इत्यपदर्शनम् , सौक्ष्म्यान दोष इति चेत् ? मुक्तावपि तत्प्रसङ्गः, निरधिकारित्वान्नैवमिति चेत् ? तर्हि साधिकारा प्रसुप्तप्रस्वभावा बुद्धिरेव प्रकृतिरस्तु कृतमन्तरा प्रकृत्यहङ्कारमनश्शब्दानामर्थान्तरकल्पनया, सैव हि तत्तद्व्यापारायोगात् तेन तेन शब्देन व्यपदिश्यते, शरीरवायुवत्, इत्यागमस्यापि न विरोध इति" इति। आत्मनोऽतात्त्विकभोगाभ्युपगमे दूषणान्तरमाह-मुक्तेरतिप्रसङ्गाञ्चेति-तेषां प्रतिबिम्बाभावात् , संसारिणामपि मुक्तकस्वभावत्वात् , वै निश्चितम् , कदाचन कदाचिदपि, न भोगः भोगो न भवेत् ॥ ३० ॥ २२३ ॥ दोषान्तरोपदर्शनायाहन च पूर्वस्वभावत्वात् , स मुक्तानामसङ्गतः । स्वभावान्तरभावे च, परिणामोऽनिवारितः ॥ ३१ ॥२२४ ॥ न चेति, अथवा संसारिणां प्रतिबिम्बोदयस्वभावो न मुक्तानामिति मुक्तानां प्रतिबिम्बाभावान्मुक्तत्वं संसारिणां तु प्रतिबिम्बभावान्न मुक्तत्वमिति न मुक्तेरतिप्रसङ्ग इत्यत आह-न चेति-न वेत्यर्थः, अस्य असङ्गत इत्यनेनान्वयः, स