________________
स्याद्वादवाटिकाटीका सङ्कलितः
विभक्तेदृक्परिणताविति - विभक्ता आत्मभिन्ना चासावीदृक्परिणतिश्चाभिहितपुरुषोपरागपरिणामा च विभक्तेदृक्परिणतिरिति कर्मधारयः, तस्यां विभक्तेदृक्परिणतौ, बुद्धौ अन्तःकरणरूपायाम्, अस्य आत्मनः, भोगः सुखदुःखानुभवलक्षणः, कथ्यते आसूरिप्रभृतिभिः साङ्ख्याचार्यैरुच्यते, किंवदित्याह-यथेति, चन्द्रमसः वास्तवस्य चन्द्रस्य, प्रतिबिम्बोदयः प्रतिबिम्बपरिणामः, स्वच्छे निर्मले, अम्भसि यथा भवति तथेत्यर्थः ॥ २९ ॥ २२२ ॥ तदिदमखिलं साङ्ख्यसम्मतमपाकुर्वन्नाहप्रतिबिम्बोदयोऽप्यस्य नामूर्तत्वेन युज्यते ।
अस्य आत्मनः,
मुक्तेरतिप्रसङ्गाच्च, न वै भोगः कदाचन ।। ३० ।। २२३ ॥ प्रतिबिम्बोदयोऽपीति - प्रतिबिम्बपरिणामोऽपीत्यर्थः, अमूर्तत्वेन रूपादिमत्त्वलक्षणमूर्तत्वशून्यत्वेन, न युज्यते न घटते, अनोपाध्यायैः – “ छायावन्मूर्तद्रव्येणैव हि प्रतिबिम्बाख्यं स्वाकारं भास्वरद्रव्योपादानं द्रव्यमारभ्यते; तथा चार्षम् -
स्तबकः ]
१३५
"सामा उदिया छाया, अभासुरगया णिसिं तु कालाभा । सच्चेह भासुरगया सदेहवण्णा मुणेयव्वा" ॥ १ ॥ इति, "श्यामोदिता छायाsभास्वरगता निशि कालाभा ।
सा चेह भास्वरगता, स्वदेहवर्णा ज्ञातव्या" इति संस्कृतम् । युक्तं चैतत्, अन्यथेदन्त्वावच्छेदेन मुखभेदग्रहाभावात् 'इदं मुखम्' इति प्रतीतेः कथञ्चिदुपपादनेऽपि 'इदं मुखप्रतिबिम्बम्' इति प्रतीतेः कथमप्युपपादयिनुमशक्यत्वात्, मुखभ्रमाधिष्ठानत्वरूपमुख प्रतिबिम्बत्वस्य प्रागेवाग्रहात्, 'आदर्श मुखप्रतिबिम्बम्' इत्याधाराधेयभावाध्यवसायानुपपत्तेश्च, एतेन मुखे बिम्बत्वमिवादर्श एव प्रतिबिम्बत्वं मुखसान्निध्य दोषाभावादिसामग्र्याभिव्यज्यते, इति निरस्तम्, बिम्बोत्कर्षेण प्रतिबिम्बोत्कर्षानुपपत्तेः, प्रतिबिम्बत्वाग्राहकसामग्र्या एवादर्शभेद भ्रम हेतुत्वेन 'अयं नादर्शः किन्तु मुखप्रतिबिम्बम्' इति सार्वजनी - नानुभवानुपपत्तेश्च; न च प्रतिबिम्बस्य द्रव्यत्वे सावधिकत्वानुपपत्तिः, प्रतिबिम्बधर्मस्यैव महत्त्ववत् सावधिकत्वात्; न चाश्रयनाशे तन्नाशानुपपत्तिः, बिम्बसन्निधाननिमित्तजनितस्य तस्य तन्नाशेनैव नाशसम्भवात् न चैवमनन्तप्रतिबिम्बोत्पत्तिनाश।दिकल्पने गौरवम्, सादृश्यातिरिक्तानन्तदोषादिकल्पने तवैव गौरवात्, अनुभवापलापाच्चेति अधिकमाकरे । स्फटिकादौ लौहित्यादिकमपि